________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 73 // अपिचेत्यादिवदिति 1, जीवकिरिये त्यादि, सम्यक्त्वं- तत्त्वश्रद्धानं तदेव जीवव्यापारत्वात् क्रिया सम्यक्त्वक्रिया, एवं द्वितीयमध्ययनं मिथ्यात्वक्रियाऽपि, नवरं मिथ्यात्वं-अतत्त्वश्रद्धानं तदपिजीवव्यापार एवेति, अथवा सम्यग्दर्शनमिथ्यात्वयोः सतोर्ये भवतः / द्विस्थानम्, प्रथमोद्देशकः तेसम्यक्त्वमिथ्यात्वक्रिये इति २॥अजीवकिरियेत्यादि।तत्र ईरियावहियत्ति-ईरणमीर्या-गमनं तद्विशिष्टः पन्था ईर्यापथस्तत्र सूत्रम् 58-59 भवा ऐर्यापथिकी, व्युत्पत्तिमात्रमिदम्, प्रवृत्तिनिमित्ततस्तु यत्केवलयोगप्रत्ययमुपशान्तमोहादित्रयस्य सातवेदनीयकर्मतया जीवा जीवादिभेदे अजीवस्य पुद्गलराशेर्भवनं सा ऐर्यापथिकी क्रिया, इह जीवव्यापारेऽप्यजीवप्रधानत्वविवक्षयाऽजीवक्रियेयमुक्ता, कर्मविशेषो द्विप्रत्यवतारः वैर्यापथिकीक्रियोच्यते, यतोऽभिहितं-इरियावहिया किरिया दुविहा- बज्झमाणा वेइज्जमाणा य, जा (व) पढमसमये बद्धा बीयसमये सूत्रम् 60 वेइया सा बद्धा पुट्ठा वेइया णिज्जिण्णा सेयकाले अकम्मं चावि भवतीति, तथा सम्परायाः- कषायास्तेषु भवा सांपरायिकी, सा जीवाजीव क्रियादीनि 36 ह्यजीवस्य पुद्गलराशेः कर्मतापरिणतिरूपा जीवव्यापारस्याविवक्षणादजीवक्रियेति, साच सूक्ष्मसम्परायान्तानां गुणस्थान सूत्राणि कवतां भवतीति 3 // पुनरन्यथा द्वे 'दो किरिये'त्यादि, काइया चेव त्ति कायेन निर्वृत्ता कायिकी- कायव्यापारः, तथा आहिकरणिया चेव त्ति, अधिक्रियते आत्मा नरकादिषु येन तदधिकरणं- अनुष्ठानं बाह्यं वा वस्तु, इह च बाह्यं विवक्षितं खड्गादि, तत्र भवा आधिकरणिकीति ४॥कायिकी द्विधा- अणुवरयकायकिरिया चेव त्ति अनुपरतस्य-अविरतस्य सावद्याद् मिथ्यादृष्टेः सम्यग्दृष्टेर्वा कायक्रिया- उत्क्षेपादिलक्षणा कर्मबन्धनिबन्धनमनुपरतकायक्रिया, तथा दुप्पउत्तकायकिरिया चेव त्तिदुष्प्रयुक्तस्य-दुष्टप्रयोगवतो दुष्प्रणिहितस्येन्द्रियाण्याश्रित्येष्टानिष्टविषयप्राप्तौ मनाक् संवेगनिर्वेदगमनेन तथा अनिन्द्रिय-2 0ई-पथिकीक्रिया द्विविधा-बध्यमाना वेद्यमाना च, या प्रथमसमये बद्धा द्वितीयसमये वेदिता सा बद्धा स्पृष्टा वेदिता निर्जीर्णा एष्यत्काले अकर्म चापि भवति / 0 गुणस्थानानाबाधया इष्टे इच्छाप्रतिबन्धेन इतरस्मिन् उद्वेगेन / 0 संवेदनि. प्र. / संगनिर्वेदगम० (प्र०)। // 73 //