________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 70 // द्विप्रत्यवतारः चास्य प्रयोगः- अस्त्यात्मादि वस्तु, पूर्वाध्ययनप्ररूपितत्वाद्, यच्चास्ति लोके पश्चास्तिकायात्मके लोक्यते- प्रमीयत इति / द्वितीयमध्ययनं लोक इति व्युत्पत्त्या लोकालोकरूपे वा तत् सर्वं निरवशेष द्वयोः पदयोः- स्थानयोः पक्षयोर्विवक्षितवस्तुतद्विपर्यय द्विस्थानम्, प्रथमोद्देशकः लक्षणयोरवतारो यस्य तद् द्विपदावतारमिति, दुपडोयारं ति क्वचित् पठ्यते, तत्र द्वयोः प्रत्यवतारो यस्य तद् द्विप्रत्यवतारमिति, सूत्रम् 57 स्वरूपवत् प्रतिपक्षवच्चेत्यर्थः, तद्यथे त्युदाहरणोपन्यासे, जीवच्चेव अजीवच्चेव त्ति, जीवाश्चैवाजीवाश्चैव, प्राकृतत्वात् संयुक्तपरत्वेन जीवा जीवादिभेदे ह्रस्वः, चकारौ समुच्चयार्थी, एवकाराववधारणे, तेन च राश्यन्तरापोहमाह, नोजीवाख्यं राश्यन्तरमस्तीति चेत्, नैवम्, सर्वनिषेधकत्वेनोशब्दस्य नोजीवशब्देनाजीव एव प्रतीयते, देशनिषेधकत्वे तुजीवदेश एव प्रतीयते, नच देशो देशिनोऽत्यन्तव्यतिरिक्त इति जीव एवासाविति, चेय इति वा एवकारार्थः 'चियच्चेय एवार्थ' इति वचनात्, ततश्च जीवा एवेति विवक्षितवस्तु अजीवा एवेति च तत्प्रतिपक्ष इति, एवं सर्वत्र, अथवा यदस्ति अस्तीति यत् सन्मानं यदित्यर्थस्तद् द्विपदावतारं-द्विविधम्, जीवाजीवभेदादिति, शेषं तथैव / अथ त्रसेत्यादिकया नवसूत्र्या जीवतत्त्वस्यैव भेदान् सप्रतिपक्षानुपदर्शयति / तत्र त्रसनामकर्मोदयतस्त्रस्यन्तीति त्रसा:-द्वीन्द्रियादयः, स्थावरनामकर्मोदयात् तिष्ठन्तीत्येवंशीलाः स्थावरा:- पृथिव्यादयः, सह योन्या- उत्पत्तिस्थानेन सयोनिकाः- संसारिणस्तद्विपर्यासभूता अयोनिकाः-सिद्धाः, सहायुषा वर्तन्त इति सायुषस्तदन्येऽनायुषःसिद्धाः, एवं सेन्द्रियाः- संसारिणः, अनिन्द्रियाः- सिद्धादयः, सवेदकाः- स्त्रीवेदाधुदयवन्तः, अवेदकाः- सिद्धादयः, सह रूपेण- मूर्त्या वर्तन्त इति समासान्ते इन्प्रत्यये सति सरूपिणः- संस्थानवर्णादिमन्तः सशरीरा इत्यर्थः, न रूपिणोऽरूपिणो मुक्ताः, सपुद्गलाः कर्मादिपुद्गलवन्तो जीवाः, अपुद्गलाः- सिद्धाः, संसारं- भवं समापन्नका:- आश्रिताः संसारसमापन्नकाः। Oआदिना सयोगिकेवल्यादयः, तेषां क्षायोपशमिकभावाभावात् क्षायोपशमिकाणि चेन्द्रियाणि॥ // 70 //