SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 69 // // अथ द्वितीयमध्ययनं द्विस्थानाख्यम् / / 8 द्वितीयमध्ययनं ॥द्वितीयाध्ययने प्रथमोद्देशकः॥ द्विस्थानम्, प्रथमोद्देशकः व्याख्यातमेकस्थानकाख्यं प्रथममध्ययनम्, अतः सङ्ख्याक्रमसम्बद्धमेव द्विस्थानकाख्यं द्वितीयमध्ययनमारभ्यते, अस्य सूत्रम् 57 चायं विशेषसम्बन्धः- इह जैनानां सामान्यविशेषात्मकं वस्तु, तत्र सामान्यमाश्रित्य प्रथमाध्ययने आत्मादिवस्त्वेकत्वेन जीवा जीवादिभेदे प्ररूपितमिह तु विशेषाश्रयणात् तदेव द्विविधत्वेन प्ररूप्यत इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराण्युप द्विप्रत्यवतारः क्रमादीनि भवन्ति, तानि च प्रथमाध्ययनवद् द्रष्टव्यानि यस्तु विशेषः स स्वबुद्ध्याऽवगन्तव्यः, केवलमस्य चतुरुद्देशकात्मकस्याध्ययनस्य सूत्रानुगमे प्रथमोद्देशकादिसूत्रमिदमुच्चारणीयं___ जदत्थि णं लोगे तं सव्वं दुपओआरं, तंजहा- जीवच्चेव अजीवच्चेव / तस चेव थावर च्चेव 1, सजोणियच्चेव अजोणियच्चेव 2,, साउयच्चेव अणाउयच्चेव 3, सइंदियच्चेव, अणिंदियच्चेव 4, सवेयगा चेव अवेयगाचेव५, सरूविचेव अरूविचेव 6, सपोग्गला चेव अपोग्गला चेव 7, संसारसमावन्नगाचेव असंसारसमावन्नगा चेव 8, सासया चेव असासया चेव 9, // सूत्रम् 57 // जदत्थि णमित्यादि अस्य च पूर्वसूत्रेण सहायं सम्बन्धः- पूर्वं ह्युक्तं एकगुणरूक्षाः पुद्गला अनन्ताः तत्र किमनेकगुणरूक्षा | अपि पुद्गला भवन्ति येन ते एकगुणरूक्षतया विशिष्यन्त इति?, उच्यते, भवन्त्येव, यतो जदत्थी त्यादि, परम्परसूत्रसम्बन्धस्तु'श्रुतं मयाऽऽयुष्मता भगवतैवमाख्यातमेक आत्मे' त्यादि, तथेदमपरमाख्यातं जदत्थी त्यादि, संहितादिचर्चः पूर्ववत्, यद्, जीवादिकं वस्तु अस्ति विद्यते, णमित्यलङ्कारे, क्वचित्पाठो जदत्थिं च णं ति, तत्रानुस्वार आगमिकश्चशब्दः पुनरर्थ एवं Oणमिति वाक्याल० (मु०)। // 69 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy