SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग तयुतम प्रथममध्ययनमेकस्थानम्, सूत्रम् 52-56 जम्बूद्वीपपरिधिः, वीरनिर्वाणगमनम्, अनुत्तर शरीरोगत्वम्, ऋषभादीनाम्, दशसहस्रादिपरिवृतत्वेन तेषां सिद्धत्वाद्, उक्तं च- एगो भगवं वीरो तेत्तीसाएँ सह निव्वुओ पासो। छत्तीसएहिं पंचहिं सएहिं नेमी उ सिद्धि गओ॥१॥(आव०नि० 308) इत्यादि / एकाकी वीरो निर्वृत इत्युक्तम्, निर्वृत्तिक्षेत्रासन्नानि चानुत्तरविमानानीति तन्निवासिदेवमानमाह- अनुत्तरे त्यादि अनुत्तरत्वादनुत्तराणि-विजयादिविमानानि तेषु य उपपातोजन्म स विद्यते येषां तेऽनुत्तरोपपातिकास्ते, णंकारौ वाक्यालङ्कारे, देवा:- सुरा एकांरलिं- हस्तं यावत् 'क्रोशं कौटिल्येन नदी' तिवदिह द्वितीया, उर्ल्ड उच्चत्तेणं ति वस्तुनो ह्यनेकधोच्चत्वम्, ऊर्द्धस्थितस्यैकमपरं तिर्यस्थितस्यान्यद् गुणोन्नतिरूपम्, तत्रेतरापोहेनोर्ध्वस्थितस्य यदुच्चत्वं तदूर्वोच्चत्वमित्यागमे रूढमिति तेनोर्बोच्चत्वेन, अनुस्वारः प्राकृतत्वात्, प्रज्ञप्ताः प्ररूपिताः सर्वविद्भिरिति, अथवा अनुत्तरोपपातिकानां देवानामूोच्चत्वेन प्रमाणमिति शेषः, एका रत्निः प्रज्ञप्तेति व्याख्येयमिति // देवाधिकारादेव नक्षत्रदेवानां अद्दा- नक्खत्ते इत्यादिना कण्ठ्येन सूत्रत्रयेण तारैकत्वमुक्तम्, तारा च- ज्योतिर्विमानरूपेति, कृत्तिकादिषु च नक्षत्रेष्विदं ताराप्रमाणम्-'छ 6 प्पंच 5 तिन्नि 3 एगं 1 चउ 4 तिग 3 रस 6 वेय४ जुयल 2 जुयलंच 2 इंदियं 5 एगं 1 एगं 1 विसय ५गि 3 समुद्द 4 बारसगं १२॥१॥चरो 4 तिय 3 तिय 3 तिय 3 पंच 5 सत्त 7 ब 2 बै भवे तिया तिनि 3-3-3 / रिक्खे तारपमाणं जड़ तिहितुल्लं हयं कजं ॥२॥'ति, इह चैकस्थानकानुरोधान्नक्षत्रत्रयस्य ताराप्रमाणमुक्तम्, शेषनक्षत्राणां तु प्रायोऽग्रेतनाध्ययनेषु तद्द्वक्ष्यति, यस्तु क्वचिद्विसंवादस्ताराप्रमाणस्य स तथाविधप्रयोजनेषु * तिथिविशेषस्य नक्षत्रविशेषयुक्तस्याशुभत्वसूचनार्थत्वेनोक्तगाथयोर्मतान्तरभूतत्वान्न बाधक इति ॥तारापुद्गलरूपेति पुद्गलस्वरूपमभिधातुमाह- एगप्पएसोगाढे त्यादि सुगमम्, नवरमेकत्र प्रदेशे-क्षेत्रस्यांशविशेषे अवगाढा:- आश्रिता एकप्रदेशाव ®एको भगवान् वीरस्त्रयस्त्रिंशता सह निर्वृतः पार्श्वः / षट्त्रिंशदधिकैः पञ्चभिः शतैर्नेमिस्तु सिद्धिं गतः॥१॥ ०वदेहमान० मुद्रिते। आर्द्राचित्रास्वातितारकाः, एकप्रदेशावगाहादि, (ज्ञानक्रियानयौ, सामान्यविशेषविचारः) // 65 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy