________________ श्रीस्थानाङ्ग प्रदेशिकस्कन्धान्ताः स्युः, अचिन्त्यत्वाद् द्रव्यपरिणामस्य, यथा पारदस्यैकेन कर्षेण चरिताः सुवर्णस्य ते सप्ताप्येकीभवन्ति, श्रीअभय० पुनर्वामिताः प्रयोगतः सप्तैव त इति, जाव एगा असंखेज्जपएसोगाढाणं ति, अनन्तप्रदेशावगाहित्वं तु नास्ति पुद्गलानाम्, वृत्तियुतम् भाग-१ लोकलक्षणस्यावगाहक्षेत्रस्याप्यसङ्ख्येयप्रदेशत्वादिति, कालत आह- एगा एगसमए त्यादि, एकं समयं यावत् स्थिति:।।६२॥ परमाणुत्वादिना एकप्रदेशावगाढादित्वेन एकगुणकालादित्वेन वाऽवस्थानं येषां ते एकसमयस्थितिकास्तेषामिति, इह च अनन्तसमयस्थितेः पुद्गलानामभावाद् असङ्ग्रेजसमयट्ठितीयाणमित्युक्तमिति, भावतः पुद्गलानाह-एगा एगगुणेत्यादि, एकेन गुणो-गुणनं ताडनं यस्य स एकगुणः, एकगुणः कालो वर्णो येषां ते एकगुणकालकाः, तारतम्येन कृष्णतरकृष्णतमादीनां येभ्य आरभ्य प्रथममुत्कर्षप्रवृत्तिर्भवतीति भावस्तेषाम्, एवं सर्वाण्यपि भावसूत्राणि षष्ट्यधिकद्विशतप्रमाणानि वाच्यानि 260, विंशतेः कृष्णादिभावानां त्रयोदशभिर्गुणनादिति / साम्प्रतं भङ्गयन्तरेण द्रव्यादिविशेषितानां जघन्यादिभेदभिन्नानां स्कन्धानां वर्गणैकत्वमाह- एगा जहन्नप्पएसियाण मित्यादि, जघन्याः- सर्वाल्पाः प्रदेशाः- परमाणवस्ते सन्ति येषां ते जघन्यप्रदेशिकाः, व्यणुकादय इत्यर्थः, स्कन्धा:- अणुसमुदयास्तेषाम् उत्कर्षन्तीत्युत्कर्षा:- उत्कर्षवन्त उत्कृष्टसङ्ख्याः परमानन्ताः प्रदेशा:- अणवस्ते सन्ति येषां ते उत्कर्षप्रदेशिकास्तेषाम्, जघन्याश्च उत्कर्षाश्च जघन्योत्कर्षाः न तथा ये ते अजघन्योत्कर्षामध्यमा इत्यर्थः, ते प्रदेशाः सन्ति येषां ते अजघन्योत्कर्षप्रदेशिकास्तेषाम्, एतेषांचानन्तवर्गणत्वेऽप्यजघन्योउत्कर्षशब्दव्यपदेश्यत्वादेकवर्गणत्वमिति / जहन्नोगाहणगाणं ति अवगाहन्ते- आसते यस्यां साऽवगाहना-क्षेत्रप्रदेशरूपा सा जघन्या येषां तेस्वार्थिककप्रत्ययाजघन्यावगाहनकास्तेषाम्, एकप्रदेशावगाढानामित्यर्थः, उत्कर्षावगाहनकानामसङ्ख्यात® एकस्मादारभ्य दशान्ताः सङ्ख्येयासङ्ख्येयानन्ताश्चेति त्रयोदश। (r) स्वस्ववर्गणायां जघन्यानां वर्गणानामनेकविधत्वाद् व्यणुकादय इति / प्रथममध्ययनमेकस्थानम्, सूत्रम् 51 नैरयिकादिदण्डकः, भव्याऽभव्यसम्यग्दृष्ट्यादितीर्थसिद्धादिपरमाण्ववगाहस्थितिभावप्रदेशवर्गणाः // 62 //