________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 61 // तत ऊर्ध्वमवश्यमेवान्तरं भवतीति, यदा पुनस्त्रयस्त्रिंशत आरभ्य अष्टचत्वारिंशदन्ता एकसमयेन सिद्ध्यन्ति तदा निरन्तरं सप्त समयान् यावत् सिद्ध्यन्ति, ततोऽवश्यमेवान्तरं भवतीति, एवं यदा एकोनपञ्चाशतमादिं कृत्वा यावत् षष्टिरेकसमयेन सिद्ध्यन्ति तदा निरन्तरं षट् समयान् सिद्ध्यन्ति, तदुपरि अन्तरं समयादिर्भवति, एवमन्यत्रापि योज्यम्, यावद् अष्टशतमेकसमयेन यदा सिद्ध्यति तदाऽवश्यमेव समयाद्यन्तरं भवतीति / अन्ये तु व्याचक्षते-अष्टौ समयान् यदा नैरन्तर्येण सिद्धिस्तदा प्रथमसमये जघन्येनैकः सिध्यत्युत्कृष्टतो द्वात्रिंशदिति, द्वितीयसमये जघन्येनैकः उत्कृष्टतोऽष्टचत्वारिंशत्, तदेवं सर्वत्र जघन्येनैकः समय उत्कृष्टतो गाथार्थोऽयं भावनीयः बत्तीसेत्यादि॥ एवमनन्तरसिद्धानां तीर्थादिना भूतभावेन प्रत्यासत्तिव्यपदेश्यत्वेन पञ्चदशविधानांवर्गणैकत्वमुक्तमिदानीं परम्परसिद्धानामुच्यते, तत्र अपढमसमयसिद्धाण मित्यादित्रयोदशसूत्री, न प्रथमसमयसिद्धाः अप्रथमसमयसिद्धाः सिद्धत्वद्वितीयसमयवर्तिनस्तेषाम् एवं जाव त्तिकरणाद् दुसमयसिद्धाणं तिचउपंचछसत्तट्टनवदससंखेज्जासंखेज्जसमयसिद्धाण मिति दृश्यम्, तत्र सिद्धत्वस्य तृतीयादिषु समयेषु द्विसमयसिद्धादयःप्रोच्यन्ते, यद्वा सामान्येनाप्रथमसमयाभिधानं विशेषतो द्विसमयाद्यभिधानमिति, अतस्तेषां वर्गणा, क्वचित् पढमसमयसिद्धाणं ति पाठः, तत्र अनन्तरपरम्परसमयसिद्धलक्षणं भेदमकृत्वा प्रथमसमयसिद्धा अनन्तरसमयसिद्धाएव व्याख्यातव्याः, व्यादिसमयसिद्धास्तु यथाश्रुता एवेति ॥इतो द्रव्यक्षेत्रकालभावानाश्रित्य पुद्गलवर्गणैकत्वं चिन्त्यते- एगा परमेत्यादि, पूरणगलनधर्माणः पुद्गलाः, ते च स्कन्धा अपि स्युरिति विशेषयति- परमाणवो-निष्प्रदेशास्ते च ते पुद्गलाश्चेति विग्रहस्तेषाम्, एवंकरणाद् दुपएसियाणं खंधाणं तिचउपंचछसत्तट्ठनवदससंखेज्जपएसियाणं असंखेज्जपएसियाण मिति दृश्यमिति, कृता द्रव्यतः पुद्गलचिन्ता, अतः क्षेत्रतः क्रियते- एगा एगपएसे त्यादि, एकस्मिन् प्रदेशे क्षेत्रस्यावगाढा- अवस्थिता एकप्रदेशावगाढास्तेषां ते च परमाण्वादयोऽनन्त प्रथममध्ययनमेकस्थानम्, सूत्रम् 51 नैरयिकादिदण्डकः, भव्याऽभव्यसम्यग्दृष्ट्यादितीर्थसिद्धादिपरमाण्ववगाहस्थितिभावप्रदेशवर्गणाः // 61 //