________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ प्रथममध्ययनमेकस्थानम्, सूत्रम् 51 नैरयिकादिदण्डकः, भव्याऽभव्यसम्यग्दृष्ट्या // 59 // प्रधानत्वाद्, अप्रधानत्वंच भावतस्तरणीयस्य संसारसागरस्य तेन तरीतुमशक्यत्वात्, सावद्यत्वादस्येति, भावतीर्थं तु सङ्को, यतो ज्ञानादिभावेन तद्विपक्षादज्ञानादितो भवाच्च भावभूतात् तारयतीति,आहच-जणाणदसणचरित्तभावओ तब्विवक्खभावाओ। भवभावओ य तारेइ तेण तं भावओ तित्थं // 1 // (विशेषाव० १०३३)ति, त्रिषु वा- क्रोधाग्निदाहोपशमलोभतृष्णानिरासकर्मामलापनयनलक्षणेषु ज्ञानादिलक्षणेषु वा अर्थेषु तिष्ठतीति त्रिस्थम्, प्राकृतत्वात् तित्थं, आह च-दाहोवसमादिसु वा जल तिसु थियमहव दंसणाईसुं। तो तित्थं सङ्घो च्चिय उभयं च विसेसणविसेसं॥१॥ (विशेषाव० १०३५)ति, विशेषणविशेष्य मिति तीर्थं सङ्ग इति सङ्घो वा तीर्थमिति, त्रयो वा क्रोधाग्निदाहोपशमादयोऽर्थाः- फलानि यस्य तत् त्र्यर्थम्, तित्थंति पूर्ववत्, आह दितीर्थसिद्धाच-कोहग्गिदाहसमणादओ व ते चेव तिन्नि जस्सऽत्था। होइ तियत्थं तित्थं तमत्थसद्दो फलत्थोऽयं // 1 // (विशेषाव० 1036) दिपरमाण्व वगाहस्थितिअथवा त्रयो ज्ञानादयोऽर्थाः- वस्तूनि यस्य तत् त्र्यर्थम्, आह च- अहवा सम्मइंसणनाणचरित्ताइं तिन्नि जस्सऽत्था। तं तित्थं भावपुव्वोदियमिहमत्थो वत्थुपज्जाओ॥१॥(विशेषाव०१०३७)त्ति॥तत्र तीर्थे सति सिद्धाः-निर्वृत्तास्तीर्थसिद्धाऋषभसेनगणधरादिवत् / प्रदेशवर्गणाः तेषां वर्गणेति 1, तथा अतीर्थे- तीर्थान्तरे साधुव्यवच्छेदे जातिस्मरणादिना प्राप्तापवर्गमार्गा मरुदेवीवत् सिद्धा अतीर्थसिद्धास्तेषां 2, एवंकरणाद् एगा तित्थगरसिद्धाणं वग्गणे त्यादि दृश्यम्, तीर्थमुक्तलक्षणं तत्कुर्वन्त्यानुलोम्येन हेतुत्वेन तच्छीलतया वेति तीर्थकराः,आह च-अणुलोमहेउतस्सीलयाय जे भावतित्थमेयं तु / कुव्वंति पगासंति उ ते तित्थगरा हियत्थकरा॥१॥(विशेषाव 0 यत् ज्ञानदर्शनचारित्रभावतस्तद्विपक्षभावात् / भवभावतश्च तारयति तेन तद्भावतस्तीर्थम् // 1 // 0 दाहोपशमादिषु वा यत्रिषु स्थितमथवा दर्शनादिषु / ततस्तीर्थं सङ्ग एवोभयं च विशेषणविशेष्यम् // 1 // 0 क्रोधाग्निदाहशमनादयो वा ते चैव त्रयो यस्यार्थाः / भवति त्र्यर्थं तीर्थं तद् अर्थशब्दः फलार्थोऽयम्॥१॥08 // 59 // अथवा सम्यग्दर्शनज्ञानचारित्राणि त्रयो यस्यार्थाः / तत् तीर्थं पूर्वोदितमिहार्थो वस्तुपर्यायः॥१॥ अनादि तीर्थमित्युत्पन्नेऽपि तीर्थान्तरता अत एव विशिष्टता साधुव्यवेत्यादिना। (c) आनुलोम्यहेतुतच्छीलतया ये भावतीर्थमेतत्तु / कुर्वन्ति प्रकाशयन्ति तु ते तीर्थकरा हितार्थकराः॥१॥