SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 57 // विहृत्यान्तर्मुहर्ते शेषे योगनिरोधं करोति ततोऽयोगित्वमलेश्यत्वं च प्राप्नोति अतोऽवगम्यते 'योगपरिणामो लेश्येति, स पुनर्योगः शरीरनामकर्मपरिणतिविशेषः, यस्मादुक्तं- कर्म हि कार्मणस्य कारणमन्येषां च शरीराणामिति, तस्मादौदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेषः काययोगः 1, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतवाग्द्रव्यसमूहसाचिव्याद् जीवव्यापारो यः स वाग्योगः२, तथौदारिकादिशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्याद् जीवव्यापारो यः स मनोयोग इति 3, ततो यथैव कायादिकरणयुक्तस्यात्मनो वीर्यपरिणतिर्योग उच्यते तथैव लेश्यापीति (प्रज्ञा०बृ० 17/2), अन्ये तुव्याचक्षते-'कर्मनिस्यन्दोलेश्य'ति, सा च द्रव्यभावभेदात् द्विधा, तत्र द्रव्यलेश्या कृष्णादिद्रव्याण्येव, भावलेश्या तु तज्जन्यो जीवपरिणाम इति, इयं च षट्प्रकारा जम्बूफलखादकपुरुषषट्कदृष्टान्ताद् ग्रामघातकचौरपुरुषषट्कदृष्टान्ताद्वा आगमप्रसिद्धादवसेयेति, तत्सूत्राणि सुगमानि, नवरं कृष्णवर्णद्रव्यसाचिव्याद् जाताऽशुभपरिणामरूपा कृष्णा सालेश्या येषां ते तथा, एवं शेषाण्यपि पदानि, नवरं नीलाईषत्सुन्दररूपैवमितिअनेनैव क्रमेण यावत्करणात् एगा कवोयलेस्साण मित्यादि सूत्रत्रयं दृश्यम्, तत्र कपोतस्य- पक्षिविशेषस्य वर्णेन तुल्यानि यानि द्रव्याणि धूम्राणि इत्यर्थः, तत्साहाय्याज्जाता कापोतलेश्या मनाक् शुभतरा सालेश्या येषां ते तथा, तेज:- अग्निज्वाला तद्वर्णानि यानि द्रव्याणि लोहितानीत्यर्थः, तत्साचिव्याजाता तेजोलेश्या शुभस्वभावा, पद्मगर्भवर्णानि यानि द्रव्याणि पीतानीत्यर्थस्तत्साचिव्याजाता पद्मलेश्या शुभतरा, शुक्लवर्णद्रव्यजनिता शुक्ला, अत्यन्तशुभेति, एतासां च विशेषतः स्वरूपं लेश्याध्ययनादवसेयमिति, एवं जस्स जइ ति नारकाणामिव यस्यासुरादेर्या यावत्यो लेश्यास्तदुद्देशेन तद्वर्गणैकत्वं वाच्यम्, भवणे त्यादिना तल्लेश्यापरिमाणमाह, अत्र सङ्गहणी-काऊनीला किण्हा लेसाओ तिन्नि होंति नरएसु / तइयाए काउनीला (r) कापोता नीला कृष्णा लेश्यास्तिस्रो भवन्ति नरकेषु / तृतीयायां कापोता नीला - प्रथममध्ययनमेकस्थानम्, सूत्रम् 51 नैरयिकादिदण्डकः, भव्याऽभव्यसम्यग्दृष्ट्यादितीर्थसिद्धादिपरमाण्ववगाहस्थितिभावप्रदेशवर्गणाः // 57 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy