________________ श्रीअभय० वृत्तियुतम् भाग-१ // 56 // विशुद्धं चेति, त्रयाणां तेषां पुञ्जानां मध्ये यदाऽर्द्धविशुद्धः पुञ्ज उदेति तदा तदुदयवशादर्द्धविशुद्धमर्हदृष्टतत्त्वश्रद्धानं भवति प्रथममध्ययन मेकस्थानम्, जीवस्य, तेन तदाऽसौ सम्यग्मिथ्यादृष्टिर्भवति अन्तर्मुहूर्तं यावत्, तत ऊर्द्धं सम्यक्त्वपुजं मिथ्यात्वपुजं वा गच्छतीति, सूत्रम् 51 सम्यग्दृष्टिमिथ्यादृष्टिमिश्रविशेषितोऽन्यो दण्डकः, तत्र च नारकादिष्वेकादशसु पदेषु दर्शनत्रयमस्ति, अत उक्तं- एवं जाव नैरयिकादिथणिए त्यादि, पृथिव्यादीनां मिथ्यात्वमेव, तेन तेषां तेनैव व्यपदेशः, उक्तञ्च- चोद्दस तस सेसया मिच्छ (जीवसमास २६)त्ति दण्डकः, भव्याऽभव्यचतुर्दशगुणस्थानकवन्तस्त्रसाः स्थावरास्तु मिथ्यादृष्टय एवेत्यर्थः। द्वीन्द्रियादीनां मिश्रं नास्ति, संज्ञिनामेव तद्भावात्, ततस्तेषु सम्यग्दृष्ट्यासम्यग्दृष्टिमिथ्यादृष्टितयैव व्यपदेशः, एवं तेइंदियाणवि चरिंदियाणवि त्ति द्वीन्द्रियवद् व्यपदेशद्वयेन वर्गणैकत्वं वाच्यम्, दितीर्थसिद्धा दिपरमाण्वपञ्चेन्द्रियतिर्यगादीनां दर्शनत्रयमप्यस्ति ततस्त्रिधाऽपि तद्व्यपदेशः, अत एवोक्तं- सेसा जहा नेरइय त्ति, तथा वाच्या इति वगाहस्थितिशेषः, दण्डकपर्यन्तसूत्रं पुनरिदं एगा सम्मद्दिट्ठियाणं वेमाणियाणं वग्गणा, एवं मिच्छद्दिट्ठियाणं, एवं सम्मामिच्छादिट्ठियाणं, | भावएतत्पर्यन्तमाह- जाव एगा सम्मामिच्छेत्यादि 3 / एगा कण्हपक्खियाणं इत्यादि, कृष्णपाक्षिकेतरयोर्लक्षणं- जेसिमवड्डो / / पोग्गलपरियट्टो सेसओ उसंसारो। ते सुक्कपक्खिया खलु अहिए पुण किण्हपक्खीआ॥१॥ (श्रावकप्रज्ञ०७२) इति, एतद्विशेषितोऽन्यो दण्डकः 4 // एगा कण्हलेसाण मित्यादि, लिश्यते प्राणी कर्मणा यया सा लेश्या, यदाह- श्लेष इव वर्णबन्धस्य कर्मबन्धस्थितिविधात्र्यः (प्रशम० 38) तथा कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः / स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते॥१॥इति, इयं च शरीरनामकर्मपरिणतिरूपा योगपरिणतिरूपत्वाद्योगस्य च शरीरनामकर्मपरिणतिविशेषत्वात्, यत उक्तं प्रज्ञापनावृत्तिकृता- योगपरिणामो लेश्या, कथं पुनर्योगपरिणामो लेश्या?, यस्मात् सयोगिकेवली शुक्ललेश्यापरिणामेन 7 येषामपार्धपुद्गलपरावर्त्तः शेषः संसारस्तु। ते शुक्लपाक्षिकाः खलु अधिके पुनः कृष्णपाक्षिकाः॥१॥