SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ // 55 // दण्डकः, सम्यग्दृष्ट्या सिद्धिका- भव्याः, तद्विपरीतास्त्वभवसिद्धिका अभव्या इत्यर्थः / ननु जीवत्वे समाने सति को भव्याभव्ययोर्विशेषः?, प्रथममध्ययनउच्यते, स्वभावकृतो, द्रव्यत्वेन समानयोर्जीवनभसोरिव, आह च-दव्वाइत्ते तुल्ले जीवनभाणं सभावओ भेदो। जीवाजीवाइगओ मेकस्थानम्, सूत्रम् 51 जह तह भव्वेयरविसेसो॥१॥ (विशेषाव० 1823) त्ति, आभ्यां विशेषितोऽन्यो दण्डकः 2 / एगा सम्मद्दिट्ठियाण मित्यादि, सम्यग्- अविपरीता दृष्टि:- दर्शनं रुचिस्तत्त्वानि प्रति येषांते सम्यग्दृष्टिकाः, तेच मिथ्यात्वमोहनीयक्षयक्षयोपशमोपशमेभ्यो भवन्ति, तथा मिथ्या- विपर्यासवती जिनाभिहितार्थसार्थाश्रद्धानवती दृष्टि:- दर्शनं श्रद्धानं येषां ते मिथ्यादृष्टिकाः भव्याऽभव्यमिथ्यात्वमोहनीयकर्मोदयादरुचितजिनवचना इति भावः, उक्तञ्च- सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः। मिथ्यादृष्टिः दितीर्थसिद्धासूत्रं हि नः प्रमाणं जिनाभिहितम् // 1 // इति / तथा सम्यक् मिथ्या च दृष्टिर्येषां ते सम्यग्मिथ्यादृष्टिकाः- जिनोक्तभावान् दिपरमाण्व वगाहस्थितिप्रत्युदासीनाः, इह च गम्भीरभवोदधिमध्यविपरिवर्तीजन्तुरनाभोगनिर्वर्तितेन गिरिसरिदुपलघोलनाकल्पेन यथाप्रवृत्तिकरणेन भावसंपादितान्तःसागरोपमकोटाकोटीस्थितिकस्य मिथ्यात्ववेदनीयस्य कर्मणः स्थितेरन्तर्मुहूर्तमुदयक्षणादुपर्यतिक्रम्यापूर्वकरणा प्रदेशवर्गणाः निवृत्तिकरणसंज्ञिताभ्यां विशुद्धिविशेषाभ्यामन्तर्मुहूर्त्तकालप्रमाणमन्तरकरणं करोति, तस्मिन् कृते तस्य कर्मणः स्थितिद्वयं / भवति, अन्तरकरणादधस्तनी प्रथमस्थितिरन्तर्मुहूर्त्तमात्रा, तस्मादेवोपरितनी शेषा, तत्र प्रथमस्थितौ मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिः, अन्तर्मुहूर्तेन तु तस्यामपगतायामन्तरकरणप्रथमसमय एवौपशमिकसम्यक्त्वमाप्नोति, मिथ्यात्वदलिकवेदना:भावात्, यथा हि दवानलः पूर्वदग्धेन्धनमूषरंवा देशमवाप्य विध्यायति तथा मिथ्यात्ववेदनाग्निरन्तरकरणमवाप्य विध्यायती // 8 // 55 // ति, तदेवं सम्यक्त्वमौषधविशेषकल्पमासाद्य मदनकोद्रवस्थानीयं दर्शनमोहनीयमशुद्धं कर्म त्रिधा भवति-अशुद्धमर्धविशुद्धं द्रव्यादित्वे तुल्ये जीवनभसोः स्वभावतो भेदः / जीवाजीवादिगतो यथा तथा भव्येतरविशेषः // 1 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy