SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 52 // सूत्रम् 51 विजू अग्गी य दीव उदही य। दिसि पवणथणियनामा दसहा एए भवणवासि // 2 // (प्रज्ञा० १३७)त्ति, एतदनुसारेण सूत्राणि प्रथममध्ययनवाच्यानि, यावच्चतुर्विंशतितमं एगा वेमाणियाणं वग्गण त्ति, एष सामान्यदण्डकः 1 / ननु नारकसत्तैव दुरुपपादा आस्तां मकस्थानम्, तद्धर्मभूताया वर्गणाया एकत्वमनेकत्वं वेति, तथाहि- नसन्ति नारकाः, तत्साधकप्रमाणाभावात्, व्योमकुसुमवद्, अत्रोच्यते, नैरयिकादिप्रमाणाभावादित्यसिद्धो हेतुः, तत्साधकानुमानसद्भावात्, तथाहि-विद्यमानभोक्तृकं प्रकृष्टपापकर्मफलम्, कर्मफलत्वात्, दण्डकः, भव्याऽभव्यपुण्यकर्मफलवत्, न च तिर्यङ्नरा एव प्रकृष्टपापफलभुजः, तस्यौदारिकशरीरवता वेदयितुमशक्यत्वात्, विशिष्टसुरजन्म सम्यग्दृष्ट्यानिबन्धनप्रकृष्टपुण्यफलवत्, आह च-पावफलस्स पगिट्ठस्स भोइणो कम्मओऽवसेसव्व। संति धुवं तेऽभिमया नेरइया अह मई दितीर्थसिद्धा दिपरमाण्वहोज्जा // 1 // अच्चत्थदुक्खिया जे तिरियनरा नारगत्ति तेऽभिमया। तं न जओ सुरसोक्खप्पगरिससरिसं न तं दुक्खं // 2 // (विशेषाव वगाहस्थिति१८९९-१९००) ति, अवसेसव्व त्ति यथा नारकेभ्योऽन्ये तिर्यभरा इत्यर्थः, अथ सुराणामपि विवादास्पदीभूतत्वात् विशिष्टसुर- भावजन्मनिबन्धनप्रकृष्टपुण्यफलवद् इत्यसिद्धो दृष्टान्तः, अत्रोच्यते, देव इति सार्थकं पदम्, व्युत्पत्तिमच्छुद्धपदत्वाद्, घटाभि प्रदेशवर्गणाः धानवदिति, ततः सन्ति देवा इति प्रत्येतव्यम्, अथ मनुष्येण गुणर्द्धिसंपन्नेनार्थवद् भविष्यति देवपदमिति न विवक्षितदेव-8 सिद्धिरिति, अत्रोच्यते, यदिदं नरविशेषे देवत्वं तदौपचारिकम्, उपचारश्च तथ्यार्थसिद्धौ सत्यां भवति, यथा निरुपचरितसिंहसद्भावे माणवके सिंहोपचार इति, आह च- देवत्ति सत्थयमिदं सुद्धत्तणओ घडाभिहाणं व। अह व मती मणुओ च्चिय देवो - विद्युतः अग्नयश्च द्वीपा उदधयश्च। दिशः पवनाः स्तनितनामानः दशधा एते भवनवासिनः॥१॥0पापफलस्य प्रकृष्टस्य भोगिनः कर्मत्वाद् अवशेषा (प्रकृष्टपुण्यफला / देवा) इव / सन्ति ध्रुवं तेऽभिमता नैरयिकाः, अथ मतिर्भवेत् // 1 // अत्यन्तदुःखिता ये तिर्यङ्नरा नारका इति तेऽभिमताः / तन्न यतः सुरसौख्यप्रकर्षसदृशं न तदुःखम् // 2 // ॐ सव्वत्थ प्र. 0 देव इति सार्थकमिदं शुद्ध(पद)त्वात् घटाभिधानमिव / अथ च मतिर्मनुजश्चैव देवो 2
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy