________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 49 // इति, तत्र ओसप्पिणी ति अवसर्पति हीयमानारकतया अवसर्पयति वाऽऽयुष्कशरीरादिभावान् हापयतीत्यवसर्पिणी सागरोपमकोटीकोटीदशकप्रमाणः कालविशेषः सुष्टु समा सुषमा अत्यन्तं सुषमा सुषमसुषमा अत्यन्तसुखस्वरूपस्तस्या एव प्रथमारक इति, एकत्वं चावसर्पिण्याः स्वरूपेणैकत्वादेवं सर्वत्र, यावदिति सीमोपदर्शनार्थः, ततश्च सुषमसुषमेत्यादि सूत्रं स्थानान्तरप्रसिद्धं तावदध्येयमिह यावद् दूसमदूसमे ति पदमित्यतिदेशः, अयं च सूत्रलाघवार्थमिति, एवं सर्वत्र यावदिति व्याख्येयम्, अतिदेशलब्धानि च पदान्येकशब्दोपपदान्येतानि- 'एगा सुसमा एगा सुसमदूसमा एगा दूसमसुसमाएगा दूसमें ति आसां स्वरूपं शब्दानुसारतो ज्ञेयं, प्रमाणं पुनराद्यानां तिसृणां समानां क्रमेण सागरोपमकोटीकोट्यश्चतुस्त्रिद्विसङ्ख्याः , चतुर्थ्यास्त्वेका द्विचत्वारिंशद्वर्षसहस्रोना, अन्त्ययोस्तु प्रत्येकं वर्षसहस्राण्येकविंशतिरिति / तथा उत्सर्पति-वर्द्धतेऽरकापेक्षया उत्सर्पयति वा भावानायुष्कादीन् वर्द्धयतीति उत्सर्पिणी अवसर्पिणीप्रमाणा दुष्ठु समा दुष्षमा-दुःखरूपा अत्यन्तं दुष्षमा दुष्षमदुष्षमा, यावत्करणाद् एगा दूसमा एगा दूसमसुसमा एगा सुसमदूसमा एगा सुसमे ति दृश्यम्, एतत्प्रमाणं च पूर्वोक्तमेव नवरं विपर्यासादिति / कृता जीवपुद्गलकाललक्षणद्रव्यविविधधर्मविशेषाणामेकत्वप्ररूपणा, अधुना संसारिमुक्तजीवपुद्गलद्रव्यविशेषाणां नारकपरमाण्वादीनांसमुदायलक्षणधर्मस्य ‘एगा नेरइयाणं वग्गणे'त्यादिना ‘एगा अजहण्णुक्कोसगुणलुक्खाणं पोग्गलाणं वग्गणे'त्येतदन्तेन ग्रन्थेन तामेवाह एगा नेरइयाणं वग्गणा एगा असुरकुमाराणं वग्गणा चउवीसदंडओ जाव वेमाणियाणं वग्गणा। एगा भवसिद्धीयाणं वग्गणा एगा अभवसिद्धीयाणं वग्गणाएगा भवसिद्धिनेरइयाणं वग्गणा एगा अभवसिद्धियाणंणेरतियाणं वग्गणा, एवंजाव एगा भवसिद्धियाणं वेमाणियाणं वग्गणा एगा अभवसिद्धियाणं वेमाणियाणं वग्गणा। एगा सम्मद्दिट्ठियाणं वग्गणा एगा मिच्छद्दिट्ठियाणं वग्गणा। प्रथममध्ययनमेकस्थानम्, सूत्रम् 51 नैरयिकादिदण्डक:, भव्याऽभव्यसम्यग्दृष्ट्यादितीर्थसिद्धादिपरमाण्ववगाहस्थितिभावप्रदेशवर्गणा: // 42