________________ श्रीस्थानाङ्ग श्रीअभय० वत्तियुतम् भाग-१ // 48 // मात्रमिति 11, जाव त्ति कलहे अब्भक्खाणे पेसुण्णे इत्यर्थः, तत्र कलहो- राटी 12 अभ्याख्यानं- प्रकटमसद्दोषारोपणं 13 प्रथममध्ययनपैशुन्यं- पिशुनकर्म प्रच्छन्नं सदसद्दोषाविर्भावनं 14, परेषां परिवादः परपरिवादो विकत्थनमित्यर्थः 15, अरतिश्च मेकस्थानम्, सूत्रम् 50 तन्मोहनीयोदयजश्चित्तविकार उद्वेगलक्षणो रतिश्च तथाविधानन्दरूपा अरतिरति इत्येकमेव विवक्षितम्, यतः क्वचन विषये या अवसर्पिणीरतिस्तामेव विषयान्तरापेक्षया अरतिं व्यपदिशन्त्येवमरतिमेव रतिमित्यौपचारिकमेकत्वमनयोरस्तीति 16, तथा मायामोस। सुषम सुषमादयः त्ति माया च- निकृतिम॒षा च- मृषावादो मायया वा सह मृषा मायामृषा प्राकृतत्वान्मायामोसम्, दोषद्वययोगः, इदं च कालभेदा: मानमृषादिसंयोगदोषोपलक्षणम्, वेषान्तरकरणेन लोकप्रतारणमित्यन्ये, प्रेमादीनि च बहुविधानि विषयभेदेन अध्यवसायस्थानभेदतो वा 17, मिथ्यादर्शनं- विपर्यस्ता दृष्टिः, तदेव तोमरादिशल्यमिव शल्यं दुःखहेतुत्वाद् मिथ्यादर्शनशल्यमिति, मिथ्यादर्शनञ्च पञ्चधा- आभिग्रहिकानाभिग्रहिकाभिनिवेशिकानाभोगिकसांशयिकभेदाद् उपाधिभेदतो बहुतरभेदं वेति 18 // एतेषां च प्राणातिपातादीनाम् उक्तक्रमेणानेकविधत्वेऽपि वधादिसाम्यादेकत्वमवगन्तव्यमिति / उक्तान्यष्टादश पापस्थानानि, इदानीं तद्विपक्षाणामेव एगे पाणाइवायवेरमणे इत्यादिभिरष्टादशभिः सूत्रैरेकतामाह, सुगमानि चैतानि, नवरं विरमणं विरतिः, तथा विवेकस्त्याग इति // उक्तं सपुद्गलजीवद्रव्यधर्माणामेकत्वमिदानीं कालस्य स्थितिरूपत्वेन तद्धर्मत्वात् तद्विशेषाणां एगा ओसप्पिणी त्यादिना ‘सुसमसुसमे' त्येतदन्तेनैतदेवाह एगा ओसप्पिणी। एगा सुसमसुसमा जाव एगा दूसमदूसमा। एगा उस्सप्पिणी एगा दुस्समदुस्समा जाव एगा सुसमसुसमा // सूत्रम् 50 // अथ काल एव कथमवसीयत इति चेत्?, उच्यते, बकुलचम्पकाशोकादिपुष्पप्रदानस्य नियमेन दर्शनान्नियामकश्च काल // 48