________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 47 // तद्विरमणम्, तत्र प्राणा:- उच्छ्रासादयस्तेषामतिपातनं-प्राणवतासह वियोजनं प्राणातिपातो हिंसेत्यर्थः, उक्तञ्च- पञ्चेन्द्रियाणि त्रिविधं प्रथममध्ययनबलं च, उच्छासनिःश्वासमथान्यदायुः / प्राणा दशैते भगवद्भिक्तास्तेषां वियोजीकरणं तु हिंसा॥१॥ इति, स च प्राणातिपातो मेकस्थानम्, सूत्रम् द्रव्यभावभेदाद् द्विविधो,विनाशपरितापसङ्क्लेशभेदात् त्रिविधोवा, आह च-तप्पज्जायविणासो दुक्खुप्पाओ य संकिलेसोय |48-49 | एस वहो जिणभणिओ वजेयव्वो पयत्तेणं॥१॥ति, अथवा मनोवाक्कायैःकरणकारणानुमतिभेदान्नवधा, पुनः स क्रोधादि- शब्दादय:, प्राणातिभेदात् षट्विंशद्विधो वेति 1, तथा मृषा- मिथ्या वदनं वादो मृषावादः, सच द्रव्यभावभेदाद् द्विधा, अभूतोद्भावनादिभिश्चतुर्धा पातादयः, वा, तथाहि- अभूतोद्भावनं यथा सर्वगत आत्मा, भूतनिह्नवो यथा नास्त्यात्मा, वस्त्वन्तरन्यासो यथा गौरपिसन्नश्वोऽयमिति, क्रोधादिनिन्दा च यथा कुष्ठी त्वमसीति 2, तथा अदत्तस्य-स्वामिजीवतीर्थकरगुरुभिरवितीर्णस्याननुज्ञातस्य सचित्ताचित्तमिश्रभेदस्य विवेकः वस्तुनः आदानं-ग्रहणमदत्तादानम्, चौर्यमित्यर्थः, तच्च विविधोपाधिवशादनेकविधमिति 3, तथा मिथुनस्य-स्त्रीपुंसलक्षणस्य कर्म मैथुनं- अब्रह्म, तद्मनोवाक्कायानां कृतकारितानुमतिभिरौदारिकवैक्रियशरीरविषयाभिरष्टादशधा विविधोपाधितो बहुविधतरं वेति 4, तथा परिगृह्यते- स्वीक्रियत इति परिग्रहः, बाह्याभ्यन्तरभेदाद् द्विधा, तत्र बाह्यो धर्मसाधनव्यतिरेकेण धनधान्यादिरनेकधा, आभ्यन्तरस्तु मिथ्यात्वाविरतिकषायप्रमादादिरनेकधा, परिग्रहणं वा परिग्रहो मूछेत्यर्थः 5, तथा क्रोधमानमायालोभाः कषायमोहनीयकर्मपुद्गलोदयसम्पाद्या जीवपरिणामा इति, एते चानन्तानुबन्ध्यादिभेदतोऽसङ्ख्याताध्यवसायस्थानभेदतो वा बहुविधाः, तथा पेज्जे ति प्रियस्य भावः कर्म वा प्रेम, तच्चानभिव्यक्तमायालोभलक्षणभेदस्वभावमभिष्वङ्गमात्रमिति 10, तथा- दोसे त्ति द्वेषणं द्वेषः, दूषणं वा दोषः, स चानभिव्यक्तक्रोधमानलक्षणभेदस्वभावोऽप्रीति-8 ॐ तत्पर्यायविनाशो दुःखोत्पादश्च संक्लेशश्च / एष वधो जिनैर्भणितो वर्जयितव्यः प्रयत्नेन // 1 // // 47 //