________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 46 // तद्विरमणम्, त्रिकोणम्, चतुरंसे त्ति चतस्रोऽसयो यस्य तत्तथा-चतुष्कोणमित्यर्थः, तथा पिहुले त्ति पृथुलं- विस्तीर्णम्, अन्यत्र पुनरिह प्रथममध्ययन मेकस्थानम्, स्थाने आयतमभिधीयते, तदेव चेह दीर्घह्रस्वपृथुलशब्दैविभज्योक्तम्, आयतधर्मत्वादेषाम्, तच्चायतं प्रतरघनश्रेणिभेदात् / सूत्रम् विधा, पुनरेकैकं समविषमप्रदेशमिति षोढा, यच्चायतभेदयोरपिह्रस्वदीर्घयोरादावभिधानं तद्वृत्तादिषु संस्थानेष्वायतस्य प्रायो 48-49 वृत्तिदर्शनार्थम्, तथाहि-दीर्घायतः स्तम्भो वृत्तस्त्र्यम्रः चतुरस्रश्चेत्यादि भावनीयम्, विचित्रत्वाद्वा सूत्रगतेरेवमुपन्यास इति, शब्दादयः, प्राणातिपरिमंडले त्ति परिमण्डलसंस्थानं वलयाकारं प्रतरघनभेदाद् द्विविधमिति, रूपभेदो वर्णः, स च कृष्णादिः पञ्चधा प्रतीत पातादयः, एव, नवरं हारिद्रः-पीतः, कपिशादयस्तुसंसर्गजा इति न तेषामुपन्यासः, गन्धो द्वेधा-सुरभिर्दुरभिश्च, तत्र सौमुख्यकृत्सुरभिर्वै क्रोधादिमुख्यकृत् दुरभिः, साधारणपरिणामोऽस्पष्टो दुर्ग्रह इति संसर्गजत्वादेव नोक्त इति, रसः पञ्चधा, तत्र श्लेष्मनाशकृत् तिक्तः 1 विवेकः वैशद्यच्छेदनकृत्कटुकः 2 अन्नरुचिस्तम्भनकृत्कषायः 3 आश्रवणक्लेदनकृदम्लः 4 ह्रादनबृंहणकृन्मधुरः 5 संसर्गजो लवण इति नोक्त इति, स्पर्शोऽष्टविधः, तत्र कर्कशः कठिनोऽनमनलक्षणः 1 यावत्करणाद् मृद्वादयः षडन्ये, तत्र मृदुः सन्नतिलक्षणः २गुरुरधोगमनहेतुः 3 लघुः प्रायस्तिर्यगूर्ध्वगमनहेतुः 4 शीतो वैशद्यकृत् स्तम्भनस्वभावः 5 उष्णो माईवपाककृत् 6 स्निग्धः संयोगेसति संयोगिनांबन्धकारणं७रूक्षस्तथैवाबन्धकारणमिति ८।उक्ता पुद्गलधर्माणामेकता, इदानींपुद्गलालिङ्गितजीवाप्रशस्तधर्माणामष्टादशानां पापस्थानकाभिधानानां एगे पाणाइवाए। इत्यादिना ग्रन्थेन 'दसणसल्ले' इत्येतदन्तेन तामेवाह एगे पाणातिवाए जाव एगे परिग्गहे। एगे कोधे जाव लोभे। एगे पेजे एगे दोसे जाव एगे परपरिवाए। एगा अरतिरती। एगे मायामोसे / एगे मिच्छादसणसल्ले॥ सूत्रम् 48 // एगे पाणाइवायवेरमणे जाव परि० वेरमणे / एगे कोहविवेगेजाव मिच्छादसणसल्लविवेगे।सूत्रम् 49 // // 46 //