________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 37 // प्रथममध्ययनमेकस्थानम्, सूत्रम् 17-43 प्रत्येकशरीरम्, अपर्यादाय वैक्रियम्, मनोवाकायव्यायामः विगतिः, प्राकृतत्वादिति, विवर्चावा-विशिष्टोपपत्तिपद्धतिर्विशिष्टभूषा वा, साचैका सामान्यादिति ॥गइत्ति मरणानन्तरं मनुजत्वादेः सकाशान्नारकत्वादौ जीवस्य गमनं गतिः, सा चैकदैकस्यैकैव ऋज्वादिका नरकगत्यादिका वा, पुद्गलस्य वा, स्थितिवैलक्षण्यमात्रतया वैकरूपा सर्वजीवपुद्गलानामिति // आगइ त्ति आगमनमागतिः- नारकत्वादेरेव प्रतिनिवृत्तिः, तदेकत्वं गतेरिवेति // चयणे ति च्युतिः, च्यवनं- वैमानिकज्योतिष्काणां मरणम्, तदेकमेकजीवापेक्षया नानाजीवापेक्षया चल पूर्ववदिति॥उववाए त्ति, उपपतनमुपपातो देवनारकाणां जन्म, सचैकश्च्यवनवदिति॥ तक्कत्ति तळणं तर्का-विमर्शः अवायात् / उत्पादः, पूर्वा ईहाया उत्तरा प्रायः शिरःकण्डूयनादयः पुरुषधर्मा इह घटन्त इतिसम्प्रत्ययरूपा, ईहा च एकत्वं प्रागिवेति // विवर्चा, गतिः, आगतिः, | सन्न त्ति संज्ञानं संज्ञा व्यञ्जनावग्रहोत्तरकालभावी मतिविशेषः, आहारभयाधुपाधिका वा चेतना संज्ञा, अभिधानं वा च्यवनम्, संज्ञेति // मन्नत्ति प्राकृतत्वान्मननं मतिः- कथञ्चिदर्थपरिच्छित्तावपिसूक्ष्मधर्मालोचनरूपा बुद्धिरितियावत्, आलोचनमिति उपपात: तर्का, संज्ञा, मतिः, केचित्, अथवा मन्ना मन्नियव्वं अभ्युपगम इत्यर्थः सूत्रद्वयेऽपि सामान्यत एकत्वमिति // एगा विन्नु त्ति विद्वान् विज्ञो वा विज्ञः, वेदना, छेदनम्, भेदनम्, तुल्यबोधत्वादेक इति स्त्रीलिङ्गत्वं च प्राकृतत्वाद् उत्पाद उप्पावत्, लुप्तभावप्रत्ययत्वाद्वा एका विद्वत्ता विज्ञता वेत्यर्थः॥ वेयण त्ति प्राग्वेदना सामान्यकर्मानुभवलक्षणोक्ता इह तु पीडालक्षणैव, साच सामान्यत एकैवेति // अस्या एव कारणविशेष जीवानां मनः, निरूपणायाह- छेयणे त्ति छेदनं शरीरस्यान्यस्य वा खड्गादिनेति // भेयणे त्ति, भेदनं कुन्तादिना, अथवा छेदनं कर्मणः स्थितिघातः भेदनं तु रसघात इति, एकता च विशेषाविवक्षणादिति // वेदनादिभ्यश्च मरणमतस्तद्विशेषमाह- एगे मरणे इत्यादि, मृतिर्मरणम् अन्ते भवमन्तिम-चरमं तच्च तच्छरीरं चेत्यन्तिमशरीरंतत्र भवा अन्तिमशारीरिका उत्तरपदवृद्धिः, तद्वा 0 तो (मु०)। 0 इह चैकत्वं (मु०)। 0 मन्ता (मु०)। 0 ०शारीरिकी (मु०)। अन्त्वदुःखम्, अधर्मप्रतिमा, धर्मप्रतिमा, उत्थानादि, ज्ञानादि 1