SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 36 // भवतीति कुतोऽवसीयते?, येनेह सूत्रे 'अपरियाइत्ता' इत्यनेन तद्विकुर्वणा व्यवच्छिद्यते इति चेद्, उच्यते, भगवतीवचनात्, तथाहि-देवे णं भंते! महिड्डिए जाव महाणुभागे बाहिरए पोग्गलए अपरियाइत्ता पभू एगवन्नं एगरूवं विउवित्तए?, गोयमा! नो इणमढे समढे, देवे णं भंते! बाहिरए पोग्गले परियाइत्ता पभू?, हंता पभु (भगवती ६-९-२/३)त्ति, इह हि उत्तरवैक्रियं बाह्यपुद्गलादानाद् भवतीति विवक्षितमिति // एगे मणे त्ति मननं मन:- औदारिकादिशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्याज्जीवव्यापारो, मनोयोग इति भावः, मन्यते वाऽनेनेति मनो- मनोद्रव्यमात्रमेवेति, तच्च सत्यादिभेदादनेकमपि संज्ञिनांवा असङ्ख्यातत्वादसङ्खयातभेदमप्येकं मननलक्षणत्वेन सर्वमनसामेकत्वादिति // एगा वइ त्ति वचनं वाक्- औदारिकवैक्रियाहारकशरीरव्यापाराहृतवाग्द्रव्यसमूहसाचिव्याज्जीवव्यापारो, वाग्योग इति भावः, इयं च सत्यादिभेदादनेकाऽप्येकैव, सर्ववाचां वचनसामान्येऽन्तर्भावादिति // एगे कायवायामे त्ति चीयत इति कायः- शरीरं तस्य व्यायामो- व्यापारः कायव्यायामः औदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेष इति भावः, स पुनरौदारिकादिभेदेन सप्तप्रकारोऽपि जीवानन्तत्वेनानन्तभेदोऽपि वा एक एव, कायव्यायामसामान्यादिति, यच्चैकस्यैकदा मनःप्रभृतीनामेकत्वं तत् सूत्र एव विशेषेण वक्ष्यति, एगे मणे देवासुरे (सू०३१)त्यादिनेति सामान्याश्रयमेवेहैकत्वं व्याख्यातमिति // उप्पत्ति प्राकृतत्वादुत्पादः, सचैक एकसमये एकपर्यायापेक्षया, न हि तस्य युगपदुत्पादद्वयादिरस्ति, अनपेक्षिततद्विशेषकपदार्थतया वैकोऽसाविति // वियइत्ति विगतिर्विगमः, साचैकोत्पादवदिति विकृतितितिरित्यादिव्याख्यान्तरमप्युचितमायोज्यम्, अस्माभिस्तु उत्पादसूत्रानुगुण्यतो व्याख्यातमिति। वियच्च त्ति विगतेः प्रागुक्तत्वादिह विगतस्य विगमवतो जीवस्य मृतस्येत्यर्थः, अर्चा- शरीरं विगतार्चा, 0 विकृतिर्विगतिरि० (मु०)। प्रथममध्ययनमकस्थानम्, सूत्रम् 17-43 प्रत्येकशरीरम्, अपर्यादाय वैक्रियम् मनोवाकाबव्यायाम:, उत्पाद:, विगति: विवर्चा, गतिः, आगति: च्यवनम्, उपपात:, तर्का, संज्ञा, मतिः, विज्ञः, वेदना, छेदनम्, भेदनम्, अन्त्यदुःखम्, अधर्मप्रतिमा, धर्मप्रतिमा, जीवानां मन:, उत्थानादि, ज्ञानादि // 6 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy