________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 35 // प्रथममध्ययनमकस्थानम्, सूत्रम् 17-43 प्रत्येकशरीरम्, अपर्यादाय वैक्रियम्, मनविाक्कायव्यायामः, उत्पादः, विगतिः, एगे मणे देवासुरमणुयाणं तंसितंसि समयंसि ॥सूत्रम् 41 / / एगावती देवासुरमणुयाणं तंसितंसि समयंसि, एगे कायवायामे देवासुरमणुयाणं तंसितंसि समयंसि, एगे उट्ठाणकम्मबलवीरियपुरिसकारपरक्कमे देवासुरमणुयाणं तंसि 2 समयंसि // सूत्रम् 42 // एगे नाणे एगे दंसणे एगे चरित्ते // सूत्रम् 43 // एगे जीवे पाडिक्कएणं सरीरएणं एकः- केवलो जीवितवान् जीवति जीविष्यति चेति जीवः- प्राणधारणधर्मा आत्मेत्यर्थः, एकं जीवंप्रति गतं यच्छरीरं प्रत्येकशरीरनामकर्मोदयात् तत्प्रत्येकं तदेव प्रत्येककम्, दीर्घत्वादि प्राकृतत्वात्, तेन प्रत्येककेन शीर्यत इति शरीरं- देहस्तदेवानुकम्पितादिधर्मोपेतं शरीरकं तेन लक्षितस्तदाश्रित्य एको जीव इत्यर्थः, अथवा शंकारी वाक्यालङ्कारार्थो, तत एको जीवः प्रत्येकके शरीरे वर्तत्त इति वाक्यार्थः स्यादिति, इह च पाडिक्खएणं ति क्वचित्पाठो दृश्यते, सच न व्याख्यातः, अनवबोधाद्, इह च वाचनानामनियतत्वात् सर्वासां व्याख्यातुमशक्यत्वात् काञ्चिदेव वाचनां व्याख्यास्याम इति // इह बन्धमोक्षादय आत्मधर्मा अनन्तरमुक्तास्ततस्तदधिकारादेवातः परमात्मधर्मान् एगा जीवाणं इत्यादिना एगे चरित्ते इत्येतदन्तेन ग्रन्थेनाह-एगा जीवाणं अपरियाइत्ता विगुव्वणा एगा जीवाणं ति प्रतीतं अपरियाइत्त त्ति अपर्यादाय परितः- समन्तादगृहीत्वा वैक्रियसमुद्धातेन बाह्यान् पुद्गलान् या विकुर्वणा भवधारणीयवैक्रियशरीररचनालक्षणा स्वस्मिन् 2 उत्पत्तिस्थाने जीवैः क्रियतेसा एकैव, प्रत्येकमेकत्वाद्भवधारणीयस्येति, सकलवैक्रियशरीर्यपेक्षया वा भवधारणीयस्यैकलक्षणत्वात् कथञ्चिदिति, या पुनर्बाह्यपुद्गलपर्यादानपूर्विका सोत्तरवैक्रियरचनालक्षणा, सा च विचित्राभिप्रायपूर्वकत्वाद् वैक्रियलब्धिमतस्तथाविधशक्तिमत्त्वाच्चैकजीवस्याप्यनेकापिस्यादिति पर्यवसितम्, अथ बाह्यपुद्गलोपादान एवोत्तरवैक्रियं विवर्चा, गतिः, आगतिः , च्यवनम्, उपपात: तर्का, संज्ञा, मतिः, विज्ञः, वेदना, छेदनम्, भेदनम्, अन्त्यदुःखम्, अधर्मप्रतिमा, धर्मप्रतिमा, जीवानां मनः, उत्थानादि, ज्ञानादि // 35 //