________________ | श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ कायः // 28 // कायः,बन्धः, इति भावः, स च प्रकृतिस्थितिप्रदेशानुभावभेदात् चतुर्विधोऽपि बन्धसामान्यादेकः, मुक्तस्य सतः पुर्नबन्धाभावाद्वा एको प्रथममध्ययन मकस्थानम्, बन्ध इति, अथवा द्रव्यतो बन्धो निगडादिभिर्भावतः कर्मणा तयोश्च बन्धनसामान्यादेको बन्ध इति, ननु बन्धो जीवकर्मणोः सूत्रम् 7-16 संयोगोऽभिप्रेतः, स खल्वादिमानादिरहितो वा स्यादिति कल्पनाद्वयम्, तत्र यद्यादिमानिति पक्षस्तदा किं पूर्वमात्मा पश्चात् धर्मास्तिकर्म अथ पूर्वं कर्म पश्चादात्मा उत युगपत्कर्मात्मानौ संप्रसूयेतामिति त्रयो विकल्पाः, तत्र न तावत् पूर्वमात्मसंभूतिः। अधर्मास्तिसम्भाव्यते, निर्हेतुकत्वात्, खरविषाणवत्, अकारणप्रसूतस्य च अकारणत एवोपरमः स्याद्, अथानादिरेव आत्मा मोक्षः, पुण्यम्, तथाप्यकारणत्वान्नास्य कर्मणा योग उपपद्यते नभोवत्, अथाकारणोऽपि कर्मणा योगः स्यात् तर्हि स मुक्तस्यापि स्यादिति, पापम्, आश्रवः, अथासावात्मा नित्यमुक्त एव तर्हि किं मोक्षजिज्ञासया?, बन्धाभावे च मुक्तव्यपदेशाभाव एव, आकाशवदिति, नापि संवरः, वेदना, निर्जरा, (बन्धकर्मणः प्राक् प्रसूतिरिति द्वितीयो विकल्पः सङ्गच्छते, कर्तुरभावात्, न चाक्रियमाणस्य कर्मव्यपदेशोऽभिमतः, स्यानादिता, काञ्चनोपलअकारणप्रसूतेश्चाकारणत एवोपरमः स्यादिति, युगपदुत्पत्तिलक्षणस्तृतीयपक्षोऽपिन क्षमः, अकारणत्वादेव, नच युगपदुत्पत्तौ ववियोगः, सत्यामयं कर्ता कर्मेदमिति व्यपदेशोयुक्तरूपः, सव्येतरगोविषाणवदिति, अथादिरहितो जीवकर्मयोग इति पक्षः, ततश्चाना- पर्याय पर्यायिणोदित्वादेव नात्मकर्मवियोगः स्यात्, आत्माऽऽकाशसंयोगवदिति, अत्रोच्यते, आदिमत्संयोगपक्षदोषा अनभ्युपगमादेव रन्यानन्यत्वम्, निरस्ताः, यच्चादिरहितजीवकर्मयोगेऽभिधीयते 'अनादित्वान्नात्मकर्मवियोग' इति, तदयुक्तम्, अनादित्वेऽपि संयोगस्य वियोगोपलब्धेः, काञ्चनोपलयोरिवेति, यदाह-जह वेह कंचणोवलसंजोगोऽणाइसंतइगओऽवि। वोच्छिज्जइ सोवायं तह जोगो Oनभोऽङ्गिरोमनुषां वेति संज्ञाविषयं छन्दोविषयं वा, भाष्यप्रदीपेऽत एवोक्तं उपसंख्यानान्येतानि छन्दोविषयाणीत्याहुरिति / (r) यथा वेह काञ्चनोपलसंयोगोऽनादिसंततिगतोऽपि व्युच्छिद्यते सोपायं तथा योगो जीवकर्मणोः // 1 // कर्म-पुण्यपापसाधनम्) // 288