________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 474 // श्रेयानित्येवंबुद्धिजनकतया सदृशकोऽन्येन श्रेयसेति तृतीयः, चतुर्थः सुज्ञानः / श्रेयानेकः सद्वृत्तत्वात् श्रेयानित्येवमात्मानं मन्यते यथावबोधाद् लोकेन वा मन्यते विशदसदनुष्ठानाद्, इह च मन्निज्जइत्ति वक्तव्ये प्राकृतत्वेन मन्नईत्युक्तम्, श्रेयानप्यन्य आत्मन्यरुचिपरायणत्वात् पापीयानित्यात्मानं मन्यते, स एव वापूर्वोपलब्धतद्दोषेण जनेन मन्यते दृढप्रहारिवत् १पापीयानप्यपरो मिथ्यात्वाद्युपहततया श्रेयानित्यात्मानं मन्यते, कुतीर्थिकवत्, तद्भक्तेन वेति 2, पापीयानन्योऽविरतिकत्वात् पापीयानित्यात्मानं मन्यते, सद्बोधत्वाद्, असंयतो वामन्यते, संयतलोकेनेति 3, श्रेयानेको भावतो द्रव्यतस्तु किश्चित्सदनुष्ठायित्वात् श्रेयानित्येवंविकल्पजनकत्वेन सदृशकोऽन्येन श्रेयसा मन्यते- ज्ञायते जनेनेति विभक्तिपरिणामाद्वा सदृशकमात्मानं मन्यत इति एवं शेषाः 4, आघवइत्ते ति आख्यायकः- प्रज्ञापकः प्रवचनस्य एकः- कश्चिन्न च प्रविभावयिता-प्रभावयिता प्रभावकः शासनस्य उदारक्रियाप्रतिभादिरहितत्वात् प्रविभाजयिता वा-प्रवचनार्थस्य नयोत्सर्गादिभिर्विवेचयितेति, अथवा आख्यायकः सूत्रस्य प्रविभावयिता प्रविभाजयिता वाऽर्थस्येति / आख्यायक एकः सूत्रार्थस्य न चोञ्छजीविकासम्पन्नो नैषणादिनिरत इत्यर्थः, स चापद्गतः संविग्नः संविग्नपाक्षिको वा, यदाह-होज हु वसणं पत्तो सरीरदुब्बल्लयाए असमत्थो। चरणकरणे असुद्धे सुद्धं मग्गं परूवेजा॥१॥तथा- ओसन्नोऽवि विहारे कम्मं सिढिलेइ सुलहबोही य। चरणकरणं विसुद्धं उववूहतो परूवेंतो॥२॥ (निशीथभा०५४३५-३६) इत्येको द्वितीयो यथाच्छन्दस्तृतीयः साधुश्चतुर्थो गृहस्थादिरिति / पूर्वसूत्रेसाधुलक्षणपुरुषस्याख्यापकत्वोञ्छजीविकासम्पन्नत्वलक्षणा गुणविभूषोक्ता अधुना तत्साम्यावृक्षविभूषामाह- चउविहे त्यादि, अथवा (r) शरीरदौर्बल्येनासमर्थो व्यसनं प्राप्तो भवेत् / (तथापि) अशुद्धे चरणकरणे शुद्ध मार्ग प्ररूपयेत् // 1 // 0 विहारेऽवसन्नोऽपि कर्म शिथिलयति सुलभबोधिश्च / विशुद्धं चरणकरणमुपळहयन् प्ररूपयंश्च / / 2 / / चतुर्थमध्ययनं चतुःस्थानम्, चतुर्थोद्देशकः सूत्रम् 343-344 व्याधिचिकित्से, चिकित्सकचतुर्भङ्गी आत्मपरचिकित्सादिचतुर्भङ्गायः // 474 //