________________ श्रीस्थाना श्रीअभय वृत्तियुतम् भाग-१ // 473 // 343-344 आत्मपर पूर्वकृतातिचारं निदानपरिहारतो रक्षति नवंचन करोति, नो नैव व्रणं संरोहयत्यौषधदानादिनेति व्रणरोही, भावव्रणापेक्षया चतुर्थमध्ययन तु नो व्रणरोही प्रायश्चित्ताप्रतिपत्तेर्वणसरोही पूर्वकृतातिचारप्रायश्चित्तप्रतिपत्त्या, नो व्रणकरोऽपूर्वातिचाराकारित्वादिति। चतुःस्थानम्, चतुर्थोद्देशकः उक्ता आत्मचिकित्सका, अथ चिकित्स्यं व्रणं दृष्टान्तीकृत्य पुरुषभेदानाह- चत्तारी त्यादि चतुःसूत्री, सुगमा, नवरमन्तर्मध्ये सूत्रम् शल्यं यस्य अदृश्यमानमित्यर्थस्तत्तथा१, बाहिं सल्ले त्ति यच्छल्यं व्रणस्यान्तरल्पं बहिस्तु बहु तहिरिव बहिरित्युच्यते, अन्तो। व्याधिबहिःशल्यं यस्य तत्तथा, यदि पुनःसर्वथैव तत्ततो बहिः स्यात् तदा शल्यतैवन स्याद्, उद्धृतत्वे वा भूतभावितया स्यादपीति चिकित्से, 2, यत्र पुनरन्तर्बहु बहिरप्युपलभ्यते तदुभयशल्यं 3 चतुर्थः शून्य इति 4, गुरुसमक्षमनालोचितत्वेनान्तः शल्यं- अतिचाररूपं चिकित्सकयस्य स तथा, बहिः शल्यं आलोचिततया यस्य तत्तथा, अन्तर्बहिश्च शल्यमालोचितानालोचितत्वेन यस्य स तथा, चतुर्थः चतुर्भङ्गी शून्यः / अन्तर्दृष्टं व्रणं लूतादिदोषतो, न बही रागाद्यभावेन सौम्यत्वात् 4, पुरुषस्तु अन्तर्दुष्टः शठतया संवृताकारत्वान्न चिकित्सादिबहिरित्येकोऽन्यस्तु कारणेनोपदर्शितवाक्पारुष्यादित्वादहिरेवेति / पुरुषाधिकारात् तद्भेदप्रतिपादनाय षट्सूत्री कण्ठ्या च, चतुर्भङ्गयः किन्तु अतिशयेन प्रशस्यः श्रेयानेकः प्रशस्यभावः सद्बोधत्वात् पुनः श्रेयान् प्रशस्तानुष्ठानत्वात् साधुवदित्येको१ऽन्यस्तु श्रेयांस्तथैव अतिशयेन पापः पापीयान्, सचाविरतत्वेन दुरनुष्ठायित्वादिति 2 अन्यस्तु पापीयान् भावतो मिथ्यात्वादिभिरुपहतत्वात् कारणवशात् सदनुष्ठायित्वाच्च श्रेयान् उदायिनृपमारकवत् 3 चतुर्थः स एव कृतपाप इति 4, अथवा श्रेयान् गृहस्थत्वे निष्क्रमणकाले वा पुनः श्रेयान् प्रव्रज्यायां विहारकाले वेत्येवमन्येऽपि / श्रेयानेको भावतो द्रव्यतस्तु श्रेयान् प्रशस्यतर इत्येवं- 473 // बुद्धिजनकत्वेन सदृशकोऽन्येन श्रेयसा तुल्यो न तु सर्वथा श्रेयानेवेत्येकः 1, अन्यस्तु भावतः श्रेयानपि द्रव्यतः पापीयानित्येवंबुद्धिजनकत्वेन सदृशकोऽन्येन पापीयसा समानोन तुपापीयानेवेति द्वितीयः 2, भावतः पापीयानप्यन्यः संवृताकारतया ,