SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 472 // वदन्ति तज्ज्ञाः॥ 2 // श्वेतत्वशीतत्वगुरुत्वकण्डूस्नेहोपदेहस्तिमितत्वलेपाः। उत्सेधसम्पातचिरक्रियाश्च, कफस्य कर्माणि वदन्ति तज्ज्ञाः॥३॥ इति / अनन्तरं व्याधिरुक्तोऽधुना तस्यैव चिकित्सां चिकित्सकांश्च सूत्रद्वयेनाह- चउविहे त्यादि, कण्ठ्यम्, नवरं चिकित्सा-रोगप्रतीकारस्तस्याश्चातुर्विध्यं कारणभेदादिति, एतत्सूत्रसंवादकमुक्तमपरैरपि-भिषग् 1 द्रव्याण्यु 2 पस्थाता 13, रोगी 4 पादचतुष्टयम् / चिकित्सितस्य निर्दिष्टं, प्रत्येकं तच्चतुर्गुणम्॥१॥ दक्षो 1 विज्ञातशास्त्रार्थो 2, दृष्टका 3 शुचि 4 भिषक् / बहुकल्पं 1 बहुगुणं 2, सम्पन्नं 3 योग्यमौषधम् 4 // 2 // अनुरक्तः 1 शुचि 2 दक्षो 3, बुद्धिमान् 4 परिचारकः / आढ्यो 1 रोगी भिषग्वश्यो 2, ज्ञापकः 3 सत्त्ववानपि 4 // 3 // इति, इयं द्रव्यरोगचिकित्सा मोहभावरोगचिकित्सा त्वेवं -निव्विगइ निब्बलोमे तवउद्धट्ठाणमेव उन्भामे। वेयावच्चाहिंडण मंडलि कप्पट्ठियाहरणं॥१॥ (निशीथभा० 574) इति (निर्बलं- वल्लादि, अवमंऊनम्,उद्भ्रामो- भिक्षाभ्रमणम् आहिंडणं देशेषु मण्डली- सूत्रार्थयोः कप्पट्ठिया श्रेष्ठिवधूरिति) (निर्विकृतिकं वल्लादि न्यूनमाचामाम्लादिकायोत्सर्गो विहारो वैयावृत्त्यं भिक्षाभ्रमो मण्डली (मोहचिकित्सैषा) कुलपुत्रिकोदाहरणात्) चिकित्सका द्रव्यतो ज्वरादिरोगान् प्रति भावतोरागादीन् प्रतीति, तत्रात्मनो ज्वरादेः कामादेर्वा चिकित्सकः-प्रतिकर्तेत्यात्मचिकित्सक इति / अथात्मचिकित्सकान् भेदतः सूत्रत्रयेणाह- चत्तारी त्यादि कण्ठ्यम्, नवरं व्रणं- देहे क्षतं स्वयं करोति रुधिरादिनिर्गालनार्थमिति, व्रणकरो नो-नैव व्रणं परिमृशतीत्येवंशीलो व्रणपरिमीत्येकोऽन्यस्त्वन्यकृतं व्रणं परिमृशति नच तत् करोतीति, एवं भावव्रणं- अतिचारलक्षणं करोति कायेन नच तदेव परिमृशति पुन:पुनः संस्मरणेन स्पृशति, अन्यस्तु तत्परिमृशत्यभिलाषान्न च करोति कायतः संसारभयादिभिरिति, व्रणं करोति न च तत्पट्टबन्धादिना संरक्षति, अन्यस्तु कृतं संरक्षति न च करोति, भावव्रणं त्वाश्रित्यातिचारं करोति न च तं सानुबन्धं भवन्तं कुशीलादिसंसर्गतन्निदानपरिहारतो रक्षत्येकोऽन्यस्तु चतुर्थमध्ययनं चतुःस्थानम्, चतुर्थोद्देशकः सूत्रम् 343-344 व्याधिचिकित्से, चिकित्सकचतुर्भङ्गी आत्मपरचिकित्सादिचतुर्भङ्गन्यः
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy