SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ प्रथममध्ययन मकस्थानम. श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 25 // सूत्रम् 3-6 दण्डः , क्रियाः, लोकः (निक्षेपा:८), अलोक: पथिकीत्यष्टविधा क्रियोक्ता, तदेकत्वञ्च करणमात्रसामान्यादिति, दण्डक्रिययोश्च स्वरूपविशेषमुपरिष्टात् स्वस्थान वक्ष्याम इति ।अक्रियावत्त्वनिरासश्चात्मन एवं-यैः किलाक्रियावत्त्वमभ्युपगतमात्मनस्तैर्भोक्तृत्वमप्यभ्युपगतमतोभुजिक्रियानिर्वर्तनसामर्थ्य सतिभोक्तृत्वमुपपद्यते तदेव च क्रियावत्त्वं नामेति, अथ प्रकृतिः करोति पुरुषस्तुभुङ्क्ते प्रतिबिम्बन्यायेनेति, तदयुक्तम्, कथञ्चित् सक्रियत्वमन्तरेण प्रकृत्युपधानयोगेऽपि प्रतिबिम्बभावानुपपत्तेः, रूपान्तरपरिणमनरूपत्वात् प्रतिबिम्बस्येति, अथ प्रकृतिविकाररूपाया बुद्धेरेव सुखाद्यर्थप्रतिबिम्बनं नात्मनः, तर्हि नास्य भोगः, तदवस्थत्वात्तस्येति, अत्रापि बहु वक्तव्यं तत्तु स्थानान्तरादवसेयमिति // उक्तस्वरूपस्यात्मन आधारस्वरूपनिरूपणायाह- एगे लोए त्ति एकोऽविवक्षितासङ्ख्यप्रदेशाधस्तिर्यगादिदिग्भेदतया लोक्यते- दृश्यते केवलालोकेनेति लोकः- धर्मास्तिकायादिद्रव्याधारभूत आकाशविशेषः, तदुक्तं-धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत् क्षेत्रम् / तैव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् // 1 // इति, अथवा लोको नामादिरष्टधा, आह च-नामं ठवणा दविए खित्ते काले भवे य भावे य। पज्जवलोए य तहा अट्ठविहो लोयनिक्खेवो॥१॥ (आव०नि० १०७०)त्ति, नामस्थापने सुज्ञाने, द्रव्यलोको जीवाजीवद्रव्यरूपः, क्षेत्रलोक आकाशमात्रमनन्तप्रदेशात्मकम्, काललोकः समयावलिकादिः, भवलोको नारकादयः स्वस्मिन् 2 भवेवर्तमाना यथा मनुष्यलोको देवलोक इति, भावलोकः षडौदयिकादयो भावाः, पर्यवलोकस्तु द्रव्याणांपर्यायमात्ररूप इति, एतेषांचैकत्वं केवलज्ञानालोकनीयत्वसामान्यादिति // लोकव्यवस्था ह्यलोके तद्विपक्षभूते सति भवतीति तमाह- एगे अलोए एकोऽनन्तप्रदेशात्मकत्वेऽप्यविवक्षितभेदत्वादलोको लोकव्युदासाद् नत्वलोकनीयतया, केवलालोकेन तस्याप्यालोक्यमानत्वादिति, ननुलोकैकदेशस्य प्रत्यक्षत्वात् तद्देशान्तर® नत्वनालोक० (मु०)। // 25 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy