________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 24 // प्रथममध्ययनमेकस्थानम. सूत्रम् 3 दण्डः , क्रियाः, तुल्यं च संरूपमुपयोग:उपयोगलक्षणो जीव इति वचनात्, तदेवमुपयोगरूपैकलक्षणत्वात् सर्वे एवात्मान एकरूपाः, एवं चैकलक्षणत्वादेक आत्मेति, अथवा जन्ममरणसुखदुःखादिसंवेदनेष्वसहायत्वादेक आत्मेति भावनीयमिति / इह च सर्वसूत्रेषु कथञ्चिदित्यनुस्मरणीयम्, कथञ्चिद्वादस्याविरोधेन सर्ववस्तुव्यवस्थानिबन्धनत्वात्, उक्तञ्च- स्याद्वादाय नमस्तस्मै, यं विना सकलाः क्रियाः। लोकद्वितयभाविन्यो, नैव साङ्गत्यमियूति॥१॥ तथा नयास्तव स्यात्पदसत्त्वलाञ्छिता, रसोपविद्धा इव लोहधातवः। लोकः भवन्त्यभिप्रेतफला यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः॥१॥(बृहत्स्वयम्भूस्तोत्रे) इति / आत्मन एकत्वमुक्तन्यायतोऽभ्युप | (निक्षेपा:८), गच्छद्धिरपि कैश्चिन्निष्क्रियत्वंतस्याभ्युपगतमतस्तन्निराकरणाय तस्य क्रियावत्त्वमभिधित्सुः क्रियायाः कारणभूतं दण्डस्वरूपं अलोक: प्रथमंतावदभिधातुमाह एगे दंडे // सूत्रम् 3 // एगा किरिया ॥सूत्रम् 4 // एगे लोए। सूत्रम् 5 // एगे अलोए। सूत्रम् 6 // __ एगे दंडे एकोऽविवक्षितविशेषत्वात् दण्ड्यते-ज्ञानाद्यैश्वर्यापहारतोऽसारीक्रियते आत्माऽनेनेति दण्डः, सच द्रव्यतो भावतश्च, द्रव्यतो यष्टिर्भावतो दुष्प्रयुक्तं मनःप्रभृति // तेन चात्मा क्रियां करोतीति तामाह- एगा किरिया एका- अविवक्षितविशेषतया / करणमात्रविवक्षणात् करणं क्रिया- कायिक्यादिकेति, अथवा एगे दंडे एगा किरिय' त्ति सूत्रद्वयेनात्मनोऽक्रियत्वनिरासेन सक्रियत्वमाह, यतो दण्डक्रियाशब्दाभ्यां त्रयोदश क्रियास्थानानि प्रतिपादितानि, तत्रार्थदण्डानर्थदण्डहिंसादण्डाकस्माद्दण्डदृष्टिविपर्यासदण्डरूपः पञ्चविधो दण्डः परप्राणापहरणलक्षणो दण्डशब्देन गृहीतः, तस्य चैकत्वं वधसामान्यादिति, क्रियाशब्देन तु मृषाप्रत्यया अदत्तादानप्रत्यया आध्यात्मिकी मानप्रत्यया मित्रद्वेषप्रत्यया मायाप्रत्यया लोभप्रत्यया ऐर्या