________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 452 // अमूर्त्तत्वादाकाशवदित्युक्ते अन्य आह-आकाशवदेवाभोक्तेत्यपि प्राप्तमनिष्टं चैतदिति, यथा वा मांसभक्षणमदुष्टं प्राण्यङ्ग- चतुर्थमध्ययनं त्वादोदनादिवद्, अत्राहान्यः- ओदनादिवदेव स्वपुत्रादिमांसभक्षणमप्यदुष्टमिति, यथा वा त्यक्तसङ्गा वस्त्रपात्रादिसङ्ग्रह चतुःस्थानम्, तृतीयोद्देशकः न कुर्वन्ति ऋषभादिवद्, अत्राह- कुण्डिकाद्यपि ते न गृह्णन्ति तद्वदेवेति, तथा कस्मात्कर्म कुरुषे यस्माद् धनार्थीति, इह सूत्रम् 338 प्रथमं ज्ञातं समग्रसाधयं द्वितीयं देशसाधर्म्यं तृतीयं सदोषं चतुर्थ प्रतिवाद्युत्तररूपमित्ययमेषां स्वरूपविभाग इति, इह देशतः ज्ञाताहरण तद्देशतद्दोषोसंवादगाथा-चरियं च कप्पियं वा दुविहं तत्तो चउन्विहेक्केक्कं / आहरणे तद्देसे तद्दोसे चेवुवन्नासा॥१॥ (दशवै०नि० 53) इति, पन्यासोपअवाये अपायोऽनर्थः स यत्र द्रव्यादिष्वभिधीयते यथैतेषु द्रव्यादिविशेषेष्वस्त्यपायो विवक्षितद्रव्यादिविशेषेष्विव, हेयता नयहेतूनां वाऽस्य यत्राभिधीयते तदाहरणमपाय इति, सचचतुर्धा द्रव्यादिभिस्तत्र द्रव्याद्रव्ये वाऽपायो द्रव्यमेव वा तत्कारणत्वादपायो चातुर्विध्यम् (सदृष्टान्तम्) द्रव्यापायः, एतद्धेयतासाधकं एतत्साधकं वाऽऽहरणमपि तथोच्यते, तत्प्रयोगो- द्रव्यापायः परिहार्यस्तत्र वाऽपायो वर्त्तते ही देशान्तरगमनेनोपार्जितद्रविणयोस्तल्लोभात् परस्परमारणपरिणतयोः स्वग्रामा बहिः प्राप्तावनुतापाद् ह्रदत्यक्तमत्स्यगिलिततद्वित्तयोर्मत्स्यबन्धकपार्वाद् गृहीतस्य तस्य मत्स्यस्य विदारणेऽवाप्ततव्यलुब्धभगिन्या मत्स्यच्छेदकशस्त्राभिघातेन तदुद्दालनप्रवृत्तमारितमातृकायास्तथाविधव्यतिकरदर्शनोत्पन्नसंवेगात् प्रतिपन्नप्रव्रज्ययोर्धातृवणिजोरिव, तत्परिहारश्च / प्रव्रज्यया तत्त्यागादिति, आहरणता चास्य देशेनोपनयस्याविवक्षणादिति, तथा क्षेत्रात् क्षेत्रेवा क्षेत्रमेव वाऽपायः क्षेत्रापायः, शेषं तथैव, एवमुत्तरत्रापि, तत्प्रयोगोऽपायवत् क्षेत्रं वर्जयेद् जरासन्धाभिधानप्रतिवासुदेवात् सम्भावितापायां मथुरानगरी यथा दशार्हचक्रं वर्जयामासेति, अथवा सम्भवत्यपायः सप्रत्यनीकक्षेत्रे ससर्पगृहवत्, कालापायो यथा- सापायकालवर्जने (c) चरितं च कल्पिकं वा द्विविधं ततश्चतुर्विधमेकैकम् / आहरणं तद्देशस्तद्दोषश्चैव उपन्यासः / / 1 / /