SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 453 // यतेत, द्वैपायनो द्वारकामावर्षद्वादशकाद्धक्ष्यतीति श्रुतनेमिनाथवचनो द्वादशवर्षलक्षणसापायकालपरिजिहीर्षयोत्तरापथप्रवृत्तो द्वैपायनो यथेति, अथवा सापायोऽपि भवति कालो भद्रादिवदिति, तथा भावापायो यथा भावापायं परिहरेद् महानागवद् नागदत्तक्षुल्लकवद्वेति, तथाहि-किल कश्चित् क्षपकः प्रस्तुतपारणकः सक्षुल्लकः समारब्धभिक्षार्थभ्रमणकः कथञ्चिन्मारितमण्डूकिकः क्षुल्लकप्रेरितोऽप्रतिपन्नतद्वचनः पुनरावश्यककाले स्मारिततदर्थः समुत्पन्नकोपः क्षुल्लकोपघातायाभ्युत्थितो वेगादागच्छन् स्तम्भ आपतितो मृतो ज्योतिष्केषूत्पन्नोऽनन्तरं च्युतो जातिस्मरदृष्टिविषसर्पतयोत्पन्नः सर्पदष्टमृतपुत्रेण च सर्पेषु कुपितेन राज्ञाऽऽदिष्टजनमार्यमाणेषु नागेषु नागविनाशकनरेण केनाप्योषधिबलादाकृष्यमाणो दृष्टकोपविपाकतया चमदृष्टिविषेण मा घातकपुरुषविघातो भवत्विति भावनया पुच्छतो निर्गच्छन् यथानिर्गमंच खण्ड्यमानः कोपलक्षणभावापायं परिहृतवानिति, तथा स एवानन्तरं नागदत्ताभिधानराजसुततयोत्पन्नो बालत्व एव प्रतिपन्नप्रव्रज्योऽत्यन्तसंविग्नस्तिर्यग्भवाभ्यासाच्चात्यन्तक्षुधालुरादित्योदयादस्तमयं यावद्भोजनशीलोऽसाधारणगुणावर्जितदेवताभिवन्दितोऽत एव तद्गच्छगतमासादिक्षपकचतुष्टयस्याविषयीभूतो विनयार्थं तेषामुपदर्शितस्वार्थानीतभोजनस्तैश्चमत्सराद्धोजनमध्यनिष्ठ्यूतनिष्ठीवनोऽत्यन्तोपशान्तचित्तवृत्तितयायःसञ्जातकेवल: पुर्देवतावन्दितस्तेषामपि क्षपकाणांसंवेगहेतुत्वेन केवलज्ञानदर्शनसमृद्धिसम्पादकः कोपरूपं भावापायं परिजहारेति, अथवा कोपादिलक्षणो भावोऽपायो भवति क्षपकस्येवेति, गाथे इह-दव्वावाए दुन्नि उ वाणियगा भायरो धणनिमित्तं / वहपरिणयमेक्कमिक्कं दहमि मच्छेण निव्वेओ॥१॥ खित्तमि अवक्कमणं दसारवग्गस्स होइ अवरेणं। ®रुद्रादि०(मु०) द्रव्यापाये द्वौ वणिग्भ्रातरौ धननिमित्तम् / वधपरिणतौ एकैकस्मिन् हदे मत्स्येन निर्वेदः // 1 // क्षेत्रे अवक्रमणं दशार्हवर्गस्य भवत्यपरस्याम् / चतुर्थमध्ययन चतुःस्थानम्, तृतीयोद्देशकः सूत्रम् 338 ज्ञाताहरणतद्देशतद्दोषोपन्यासोपनयहेतूनां चातुर्विध्यम् (सदृष्टान्तम्)
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy