________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 451 // त्वात्, कस्माद्यवाः क्रीयन्ते? यस्मान्मुधा न लभ्यन्ते इत्यादिवदिति, एवमनेकधा साध्यप्रत्यायनस्वरूपं ज्ञातमुपाधिभेदात् चतुर्थमध्ययन चतुर्विधं दर्शयति-तत्र आ-अभिविधिना ह्रियते-प्रतीतौ नीयते अप्रतीतोऽर्थोऽनेनेत्याहरणं, यत्र समुदित एव दार्टान्तिकोऽर्थ चतु:स्थानम्, तृतीयोद्देशकः उपनीयते यथा पापंदुःखाय ब्रह्मदत्तस्येवेति, तथा तस्य-आहरणार्थस्य देशस्तद्देशः सचासावुपचारादाहरणं चेति प्राकृतत्वा सूत्रम् 338 दाहरणशब्दस्य पूर्वनिपाते आहरणतद्देश इति, भावार्थश्चात्र- यत्र दृष्टान्तार्थदेशेनैव दार्टान्तिकार्थस्योपनयनं क्रियते ज्ञाताहरण तद्देशतद्दोषोतत्तद्देशोदाहरणमिति, यथा चन्द्र इव मुखमस्या इति, इह हि चन्द्रे सौम्यत्वलक्षणेनैव देशेन मुखस्योपनयनं नानिष्टेन नयननासा पन्यासोपवर्जितत्वकलङ्कादिनेति, तथा तस्यैव- आहरणस्य सम्बन्धी साक्षात्प्रसङ्गसम्पन्नो वा दोषस्तद्दोषः स चासौ धर्मे धर्मिण नयहेतूनां उपचारादाहरणं चेति प्राकृतत्वेन पूर्वनिपातादाहरणतद्दोष इति, अथवा तस्य- आहरणस्य दोषो यस्मिंस्तत्तथा, शेषं तथैव, चातुर्विध्यम् | (सदृष्टान्तम्) अयमत्र भावार्थो-यत्साध्यविकलत्वादिदोषदुष्टं तत्तदोषाहरणम्, यथा नित्यः शब्दोऽमूर्त्तत्वाद्घटवद्, इह साध्यसाधनवैकल्यं नाम दृष्टान्तदोषो, यच्चासभ्यादिवचनरूपं तदपि तद्दोषाहरणम्, यथा सर्वथाऽहमसत्यं परिहरामि गुरुमस्तककर्तनवदिति, यद्वा साध्यसिद्धिं कुर्वदपि दोषान्तरमुपनयति तदपि तदेव, यथा सत्यं धर्ममिच्छन्ति लौकिकमुनयोऽपि- वरं कूपशताद्वापी, वरं वापीशतात्क्रतुः। वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम् // 1 // (नारद०१/२१२) इति वचनवक्तृनारदवदिति, अनेन च श्रोतुः / पुत्रक्रतुप्रभृतिषु प्रायः संसारकारणेषु धर्मप्रतीतिराहितेति आहरणतद्दोषतेति, यथा वा- बुद्धिमता केनापि कृतमिदं जगत् सन्निवेशविशेषवत्त्वाद्घटवत् सचेश्वर इति, अनेन हि स बुद्धिमान् कुम्भकारतुल्योऽनीश्वरः सिध्यतीति, ईश्वरश्च स विवक्षिता इति, तथावादिना अभिमतार्थसाधनाय कृते वस्तूपन्यासे तद्विघटनाय यः प्रतिवादिना विरुद्धार्थोपनयः क्रियते पर्यनुयोगोपन्यासे वा य उत्तरोपनयः स उपन्यासोपनयः, उत्तररूपमुपपत्तिमात्रमपि ज्ञातभेदो ज्ञानहेतुत्वादिति, यथा अकर्ताऽऽत्मा