________________ श्रीस्थानाई श्रीअभय० वृत्तियुतम् भाग-१ // 450 // चतुर्थमध्ययनं चतुःस्थानम्, तृतीयोद्देशकः सूत्रम् 338 ज्ञाताहरणतद्देशतद्दोषोपन्यासोपनयहेतूनां चातुर्विध्यम् (सदृष्टान्तम्) अर्था उक्तवन्निदर्शनतः प्रायः प्राणिनां प्रतीतिपथपातिनो भवन्तीति निदर्शनभेदप्रतिपादनाय पञ्चसूत्री चउव्विहे णाते पं० सं०- आहरणे आहरणतहेसे आहरणतद्दोसे उवन्नासोवणए 1, आहरणे चउव्विहे पं० तं०- अवाते उवाते ठवणाकम्मे पडुप्पन्नविणासी 2, आहरणतद्देसे चउव्विहे पं० तं०- अणुसिट्ठी उवालंभे पुच्छा निस्सावयणे 3, आहरणतद्दोसे चउबिहे पं० तं०- अधम्मजुत्ते पडिलोमे अंतोवणीते दुरुवणीते 4, उवन्नासोवणए चउव्विहे पं० तं०- तव्वत्थुते तदन्नवत्थुते पडिनिभे हेतू 5, हेऊ चउव्विहे- पं० तं०- जावते थावते वंसते लूसते 1, अथवा हेऊ चउविहे पं० तं०- पच्चक्खे अणुमाणे ओवम्मे आगमे 2, अहवा हेऊ चउव्विहे पं० तं०- अत्थित्तं अत्थि सो हेऊ 1, अत्थित्तं णत्थि सो हेऊ 2, णत्थित्तं अत्थि सो हेऊ 3, णत्थित्तं णत्थि सो हेऊ ४,३॥सूत्रम् 338 // तत्र ज्ञायते अस्मिन् सति दान्तिकोऽर्थ इति अधिकरणे क्तप्रत्ययोपादानाद्ज्ञातं- दृष्टान्तः, साधनसद्भावे साध्यस्यावश्यम्भावः साध्याभावे वा साधनस्यावश्यमभाव इत्युपदर्शनलक्षणो, यदाह-साध्येनानुगमो हेतोः, साध्याभावे च नास्तिता।ख्याप्यते यत्र दृष्टान्तः, स साधर्म्यतरो द्विधा ॥१॥(प्रमाणसमु०४/२) इति, तत्र साधर्म्यदृष्टान्तोऽग्निरत्र धूमाद्यथा महानस इति, वैधर्म्यदृष्टान्तस्तु अग्न्यभावे धूमो न भवति यथा जलाशये इति, अथवा आख्यानकरूपं ज्ञातम्, तच्च चरितकल्पितभेदाद् द्विधा, तत्र चरितं यथा निदानं दुःखाय ब्रह्मदत्तस्येव, कल्पितं यथा प्रमादवतामनित्यं यौवनादीति देशनीयम्, यथा पाण्डुपत्रेण किशलयानां देशितम्, तथाहि-जह तुब्भे तह अम्हे तुब्भेऽविय होहिहा जहा अम्हे / अप्पाहेइ पडतं पंडुयपत्तं किसलयाणं॥१॥ (उत्तरा०नि० 307) इति, अथवोपमानमात्रं ज्ञातं सुकुमारः करः किशलयमिवेत्यादिवद्, अथवा ज्ञातं- उपपत्तिमात्रं ज्ञानहेतु 0 यथा यूयं तथा वयं यूयमपि भविष्यथ यथा वयं। शिक्षयति पतत् पांडुपत्रं किशलयान् // 1 // // 450 // 1888888888888808080808