________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 449 // चउहिं ठाणेहिं जीवा य पोग्गला य णो संचातेंति बहिया लोगंता गमणताते, तं०- गतिअभावणं णिरुवग्गहताते लुक्खताते लोगाणुभावेणं // सूत्रम् 337 // चउण्ह मित्यादि कण्ठ्यम्, किन्तु नो पस्सं तिचक्षुषा नो दृश्यमतिसूक्ष्मत्वात्, क्वचित् नो सुपस्संति पाठस्तत्र न सुखदृश्यहनचक्षुषः प्रत्यक्षदृश्यमनुमानादिभिस्तु दृश्यमपीत्यर्थो, बादरवायूनां तथा सूक्ष्माणांपञ्चानामपि तदेकमनेकं वा अदृश्यमिति चतुर्णामित्युक्तम्, वनस्पतय इह साधारणा एव ग्राह्याः, प्रत्येकशरीरस्यैकस्यापि दृश्यत्वादिति / पृथिव्यादीनां शरीरस्य चक्षुरिन्द्रियाविषयत्वमुक्तमितीन्द्रियविषयप्रस्तावादिदमाह- चत्तारि इंदिये त्यादि, स्पष्टम्, किन्तु इन्द्रियैरर्यन्ते-अधिगम्यन्त इतीन्द्रियार्थाः- शब्दादयः, पुट्ठत्ति स्पृष्टाः- इन्द्रियसम्बद्धा वेएंति त्ति वेद्यन्ते- आत्मना ज्ञायन्ते, नयनमनोवर्जानां श्रोत्रादीनां प्राप्तार्थपरिच्छेदस्वभावत्वादिति, उक्तं च-पुढे सुणेइ सई रूवं पुण पासई अपुढे तु / गंध रसं च फासं च बद्धपुढे वियागरे॥१॥ (आव०नि० 5) इति, अनन्तरं जीवपुद्गलयोरिन्द्रियद्वारेण ग्राहकग्राह्यभाव उक्तोऽधुना तयोर्गतिधर्मं चिन्तयन्नाह- चउही त्यादि, व्यक्तम्, परमन्येषांगतिरेव नास्तीति जीवा य पुग्गलाये'त्युक्तम्, नोसंचाऐंति न शक्नुवन्ति नालंबहिय त्ति बहिस्ताल्लोकान्ताद् अलोके इत्यर्थो, गमनतायै-गमनाय गन्तुमित्यर्थो, गत्यभावेन-लोकान्तात् परतस्तेषांगतिलक्षणस्वभावाभावादधो दीपशिखावत्, तथा निरुपग्रहतया-धर्मास्तिकायाभावेन तजनितगत्युपष्टम्भाभावाद् गन्त्र्यादिरहितपङ्गवत्, तथा रूक्षतया सिकतामुष्टिवद्, लोकान्तेषु हि पुद्गला रूक्षतया तथा परिणमन्ति यथा परतो गमनाय नालम्, कर्मपुद्गलानां तथाभावे जीवा अपि, सिद्धास्तु निरुपग्रहतयैवेति, लोकानुभावेन- लोकमर्यादया विषयक्षेत्रादन्यत्र मार्तण्डमण्डलवदिति। अनन्तरोक्ता स्पृष्टं शृणोति शब्दं रूपं पुनः पश्यत्यस्पृष्टमेव / गन्धं रसं च स्पर्श च बद्धस्पृष्टं व्याकुर्यात् // 1 // चतुर्थमध्ययनं चतुःस्थानम्, तृतीयोद्देशकः सूत्रम् |335-337 दुर्दर्शशरीराः, स्पृष्टार्थवेदकेन्द्रियाणि, बहिर्जीवपुद्गला-गमनकारणानि // 449 / /