SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ चतुर्थमध्ययन चतुःस्थानम्, तृतीयोद्देशकः सूत्रम् 327 आत्मभरिपरंभर्यादिचतुर्भङ्गयः // 443 // परिहतगृहवासो यतित्वादभावितत्वान्न परिहृतसंज्ञोऽन्य उभयथा अन्यो नोभयथेति / इहैव जन्मन्यर्थः- प्रयोजनंभोगसुखादि आस्था वा-इदमेव साध्विति बुद्धिर्यस्य स इहार्थ इहास्थो वा भोगपुरुष इहलोकप्रतिबद्धोवा, परत्रैव जन्मान्तरे अर्थ आस्था वा यस्य स परार्थः परास्थो वा साधुर्बालतपस्वी वा इह परत्र च यस्यार्थ आस्था वा स सुश्रावक उभयप्रतिबद्धो वा उभयप्रतिषेधवान् कालशौकरिकादिर्मूढो वेति, अथवा इहैव विवक्षिते ग्रामादौ तिष्ठतीति इहस्थस्तत्प्रतिबन्धान्न परस्थो अन्यस्तु परत्र प्रतिबन्धात्परस्थोऽन्यस्तूभयस्थोऽन्यः सर्वाप्रतिबद्धत्वादनुभयस्थः साधुरिति / एकेनेति श्रुतेन एकः कश्चिद्वर्द्धते एकेनेति सम्यग्दर्शनेन हीयते, यथोक्तं-जह जह बहुस्सुओ संमओ य सीसगणसंपरिवुडो य। अविणिच्छिओ य समए तह तह सिद्धंतपडिणीओ॥१॥ (सम्मति० 3/66) इत्येकस्तथा एकेन श्रुतेनैवान्यो वर्द्धते द्वाभ्यां सम्यग्दर्शनविनयाभ्यां हीयते इति द्वितीयो, द्वाभ्यां श्रुतानुष्ठानाभ्यामन्यो वर्द्धते एकेन सम्यग्दर्शनेन हीयते इति तृतीयो, द्वाभ्यां श्रुतानुष्ठानाभ्यामन्यो वर्द्धते द्वाभ्यां सम्यग्दर्शनविनयाभ्यां हीयत इति चतुर्थः, अथवा ज्ञानेन वर्द्धते रागेण हीयते इत्येकोऽन्यो ज्ञानेन वर्द्धते रागद्वेषाभ्यां हीयते इति द्वितीयोऽन्यो ज्ञानसंयमाभ्यांवर्द्धते रागेण हीयते इति तृतीयोऽन्यो ज्ञानसंयमाभ्यां वर्द्धते रागद्वेषाभ्यां हीयत इति चतुर्थोऽथवा क्रोधेन वर्द्धते मायया हीयते कोपेन वर्द्धते मायालोभाभ्यां हीयते क्रोधमानाभ्यां वर्द्धते मायया हीयते क्रोधमानाभ्यां वर्द्धते मायालोभाभ्यां हीयत इति ।प्रकन्थकाः पाठान्तरतःकन्थका वा-अश्वविशेषाः, आकीर्णो- व्याप्तो जवादिगुणैः पूर्वं पश्चादपि तथैव, अन्यस्त्वाकीर्णः पूर्वं पश्चात्खलुङ्को- गलिरविनीत इति, अन्यः पूर्वं खलुङ्कः पश्चादाकीर्णो गुणवानिति चतुर्थः, पूर्व पश्चादपिखलुङ्क एवेति / आकीर्णो गुणवान् आकीर्णतया-गुणवत्तया विनयवेगादिभिरित्यर्थो, वहति- प्रवर्त्तते विहरतीति 0 यथा यथा बहुश्रुतः संमतश्च शिष्यगणसंपरिवृतश्च। अविनिश्चितो यदि समये तथा तथा सिद्धान्तप्रत्यनीकः // 1 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy