SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 444 // चतुर्थमध्ययनं ] चतुःस्थानम्, तृतीयोद्देशकः सूत्रम् 328-329 अप्रतिष्ठानादीनि सीमन्तकादीनि समानि सपक्षाणि च, द्विशरीरा: पाठान्तरम्, आकीर्णोऽन्य आरोहदोषेण खलुङ्कतया- गलितया वहति, अन्यस्तु खलुङ्क आरोहकगुणाद् आकीर्णगुणतया वहति, चतुर्थः प्रतीतः, सूत्रद्वयेऽपि पुरुषा दार्शन्तिका योज्याः, सूत्रे तु क्वचिन्नोक्ताः, विचित्रत्वाद् सूत्रगतेरिति, 5 जाति 4 कुल 3 बल 2 रूप 1 जयपदेषु दशभिर्द्विकसंयोगैर्दशैव प्रकन्थकदृष्टान्तचतुर्भङ्गीसूत्राणि, प्रत्येकं तान्येवानुसरन्ति सन्ति दश दान्तिकपुरुषसूत्राणि भवन्तीति, नवरं जयः- पराभिभव इति, सिंहतया- ऊर्जवृत्त्या निष्क्रान्तो गृहवासात् तथैव च विहरति उद्यतविहारेणेति, शृगालतया-दीनवृत्त्येति / पूर्वं पुरुषाणामश्वादिभिर्जात्यादिगुणेन समतोक्ताऽधुना अप्रतिष्ठानादीनां तामेव प्रमाणत आह चत्तारि लोगेसमा पं० तं०- अपइट्ठाणे नरए 1 जंबुद्दीवे दीवे 2 पालते जाणविमाणे 3 सव्वट्ठसिद्धे महाविमाणे 4, चत्तारि लोगे समा सपक्खिं सपडिदिसिं पं० तं०-सीमंतए नरए समयक्खेत्ते उडुविमाणे ईसीपब्भारा पुढवी / / सूत्रम् 328 // __उड्डलोगे णं चत्तारि बिसरीरा पं० तं०- पुढविकाइया आउ० वणस्सइ० उराला तसा पाणा, अहो लोगे णं चत्तारि बिसरीरा पं० तं०- एवं चेव, एवं तिरियलोएवि 4 // सूत्रम् 329 // / चत्तारी त्यादि सूत्रद्वयं प्रायो व्याख्यातार्थं तथाप्युच्यते, अप्रतिष्ठानो नरकावासः सप्तम्यां नरकपृथिव्यां पञ्चानां कालादीनां नरकावासानां मध्यवर्ती, स च योजनलक्षम्, पालकं पालकदेवनिर्मितं सौधर्मेन्द्रसम्बन्धि यानञ्च तद्विमानश्च यानाय वागमनाय विमानं यानविमानम्, नतु शाश्वतमिति, सर्वार्थसिद्धं पञ्चानामनुत्तरविमानानां मध्यममिति / चत्वारो लोके समा भवन्ति, कथमित्याह- सपक्खिं सपडिदिसं ति समाना: पक्षाः-पार्वा दिशो यस्मिन् तत्सपक्षमिहेकारः प्राकृतत्वेन तथा समानाः प्रतिदिशो-विदिशो यस्मिंस्तत्सप्रतिदिक्तद्यथा भवत्येवं समा भवन्तीति, सदृशाः पक्षैरिति सपक्षमित्यव्ययीभावो // 444 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy