________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ चतुर्थमध्ययनं चतुःस्थानम्, तृतीयोद्देशक: सूत्रम् 327 आत्मभरिपरंभर्यादिचतुर्भङ्गन्यः // 442 // कुकर्मकारितया मलिनस्वभावस्तमः- अज्ञानं बलं- सामर्थ्य यस्य तमो- ऽन्धकारं वा तदेव तत्र वा बलं यस्य स तथा, असदाचारवानज्ञानी रात्रिचरोवा चौरादिरित्येकस्तथा तमस्तथैव ज्योतिर्ज्ञानं बलंयस्य आदित्यादिप्रकाशोवा ज्योतिस्तदेव तत्र वा बलं यस्य स तथा, अयं चासदाचारो ज्ञानवान् दिनचारी वा चौरादिरिति द्वितीयो, ज्योतिः-सत्कर्मकारितयोज्ज्वलस्वभावस्तमोबलस्तथैव, अयं च सदाचारवान् अज्ञानी कारणान्तराद्वारात्रिचर इति तृतीयश्चतुर्थः सुज्ञानोऽयञ्च सदाचारवान् ज्ञानी दिनचरो वेति / तथा तमस्तथैव 'तमबलपलज्जणे'त्ति तमो- मिथ्याज्ञानम् अन्धकारं वा तदेव बलं तत्र वा अथवा तमसि- उक्तरूपे बले च-सामर्थ्य प्ररज्यते- रतिं करोतीति तमोबलप्ररञ्जनः, एवं ज्योतिर्बलप्ररञ्जनोऽपि, नवरं ज्योतिःसम्यग्ज्ञानमादित्यादिप्रकाशो वेति, एवमितरावपि, इहापि त एव पूर्वसूत्रोक्ताः पुरुषविशेषाः प्ररञ्जनविशेषिता द्रष्टव्याः, अथवा तमस्तथैवाप्रसिद्धो वा तमोबलेन-अन्धकारबलेन सञ्चरन् प्रलज्जते इति तमोबलप्रलज्जनः- प्रकाशचारी, एवमितरेऽपि, नवरं द्वितीयोऽन्धकारचारी तृतीयः प्रकाशचारी चतुर्थः कुतोऽपिकारणादन्धकारचार्येवेति, पज्जलणे त्ति क्वचित्पाठस्तत्राज्ञानबलेनान्धकारबलेन वा ज्ञानबलेन प्रकाशबलेन वा प्रज्वलति-दर्पितो भवत्यवष्टम्भं करोति यः स तथेति / परिज्ञातानिज्ञपरिज्ञया स्वरूपतोऽवगतानि प्रत्याख्यानपरिज्ञया च परिहृतानि कर्माणि- कृष्यादीनि येन स परिज्ञातकर्मा नो- न च परिज्ञाता:संज्ञा-आहारसंज्ञाद्या येन सपरिज्ञातसंज्ञोऽभावितावस्थः प्रव्रजितःश्रावको वेत्येकः, परिज्ञातसंज्ञः सद्भावनाभावितत्वात् न परिज्ञातका कृष्याद्यनिवृत्तेः श्रावक इति द्वितीयस्तृतीयः साधुश्चतुर्थोऽसंयत इति / परिज्ञातकर्मा- सावधकरणकारणानुमतिनिवृत्तः कृष्यादिनिवृत्तो वा न परिज्ञातगृहावासोऽप्रव्रजित इत्येकोऽन्यस्तु परिज्ञातगृहावासो न त्यक्तारम्भो दुष्प्रव्रजित इति द्वितीयस्तृतीयःसाधुश्चतुर्थोऽसंयतस्त्यक्तसंज्ञो विशिष्टगुणस्थानकत्वादत्यक्तगृहावासो गृहस्थत्वादेकोऽन्यस्तु // 442 //