________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 441 // तं०- रूवसंपन्ने णाममेगेणो जयसंपन्ने 4, एवामेव चत्तारि पुरिसजाया पं० तं०- रूवसंपन्ने नाममेगेणो जयसंपन्ने 4 / चत्तारि पुरिस- चतुर्थमध्ययनं जाया पं० तंजहा-सीहत्ताते णाममेगे निक्खंते सीहत्ताते विहरइसीहत्ताते नाममेगे निक्खंते सियालत्ताए विहरइ सीयालत्ताए नाममेगे चतुःस्थानम्, तृतीयोद्देशकः निक्खंते सीहत्ताए विहरइ सीयालत्ताए नाममेगे निक्खंते सीयालत्ताए विहरइ // सूत्रम् 327 // सूत्रम् 327 चत्तारी त्यादि, आत्मानं बिभर्ति-पुष्णातीत्यात्मम्भरिःप्राकृतत्वादायंभरे, तथा परं बिभर्तीति परम्भरिः,प्राकृतत्वात्परंभरेष्ठ आत्मभरिइति, तत्र प्रथमभङ्गे स्वार्थकारक एव, स च जिनकल्पिको, द्वितीयः परार्थकारक एव, स च भगवानर्हन्, तस्य विवक्षया परंभर्यादि चतुर्भङ्गयः सकलस्वार्थसमाप्तेः परप्रधानप्रयोजनप्रापणप्रवणप्राणितत्वात्, तृतीये स्वपरार्थकारी, सच स्थविरकल्पिको विहितानुष्ठानतः। स्वार्थकरत्वाद्विधिवत्सिद्धान्तदेशनातश्च परार्थसम्पादकत्वात्, चतुर्थे तूभयानुपकारी, स च मुग्धमतिः कश्चिद् यथाच्छन्दो वेति, एवं लौकिकपुरुषोऽपि योजनीयः / उभयानुपकारी च दुर्गत एव स्यादिति दुर्गतसूत्रम्, दुर्गतो- दरिद्रः, पूर्व धनविहीनत्वाद् / ज्ञानादिरत्नविहीनत्वाद्वा पश्चादपि तथैव दुर्गत एवेति, अथवा दुर्गतो द्रव्यतः पुनर्दुगतो भावत इति प्रथम, एवमन्ये त्रयो, नवरं सुगतो द्रव्यतो धनी भावतो ज्ञानादिगुणवानिति / दुर्गतः कोऽपि व्रती स्यादिति दुव्रतसूत्रम्, दुर्गतो-दरिद्रो दुव्रतोऽसम्यग्वतोऽथवा दुर्व्यय-आयनिरपेक्षव्ययः कुस्थानव्ययो वेत्येकः, अन्यो दुर्गतः सन् सुव्रतो-निरतिचारनियमः, सुव्ययो वौचित्यप्रवृत्तेरिति, इतरौ प्रतीतौ / दुर्गतस्तथैव दुष्प्रत्यानन्दः- उपकृतेन कृतमुपकारं यो नाभिमन्यते, यस्तु मन्यते तं स सुप्रत्यानन्द इति / दुर्गतो-दरिद्रः सन् दुर्गतिं गमिष्यतीति दुर्गतिगामीत्येवमन्येऽपि, नवरंसुगतिं गमिष्यतीति सुगतिगामी, सुगत- ईश्वर इत्यर्थः। // 441 // दुर्गतस्तथैव दुर्गतिंगतो यात्राजनकुपिततन्मारणप्रवृत्तद्रमकवद्, एवमन्ये त्रयः। तम इव तमः पूर्वमज्ञानरूपत्वादप्रकाशत्वाद्वा पश्चादपि तम एवेत्येकोऽन्यस्तु तमः पूर्वं पश्चाज्योतिरिव ज्योतिरुपार्जितज्ञानत्वात् प्रसिद्धिप्राप्तत्वाद्वा, शेषौ सुज्ञानौ / तम: