SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 22 // मेकस्थानम्, सूत्रम् 2 द्रव्यार्थ आत्मसाधनम्, सामान्य मानरूपगुणघटवदिति स्थापितमेतत् 'द्रव्यार्थतया एक आत्मे'ति, अथवा एक आत्मा कथञ्चिदिति, प्रतिक्षणंसम्भवदपरापरकालकृतकुमारतरुणनरनारकत्वादिपर्यायैरुत्पादविनाशयोगेऽपि द्रव्यार्थतयैकत्वादस्य, यद्यपि हि कालकृतपर्यायैरुत्पद्यते नश्यति च वस्तु तथापि स्वपरपर्यायरूपानन्तधर्मात्मकत्वात् तस्य न सर्वथा नाशो युक्त इति, आह च-न हि सव्वहा विणासो अद्धापज्जायमित्तनासंमि। सपरपज्जायाणंतधम्मुणो वत्थुणो जुत्तो॥१॥ (विशेषाव० २३९३)त्ति, किञ्च- प्रतिक्षणं क्षयिणो भावा प्रदेशार्थता विचारः, इत्येतस्माद् वचनात् प्रतिपाद्यस्य यत्क्षणभङ्गविज्ञानमुपजायते तदसङ्ख्यातसमयैरेव वाक्यार्थग्रहणपरिणामाज्जायते, न तु अवयविप्रतिपत्तुः प्रतिसमयं विनाशे सति, यत एकैकमप्यक्षरं पदसत्कं सङ्ख्यातीतसमयसम्भूतम्, सङ्ख्यातानि चाक्षराणि पदम्, साधनम्, सङ्ख्यातपदंच वाक्यम्, तदर्थग्रहणपरिणामाच्च सर्वं क्षणभङ्गरमिति विज्ञानं भवेत् तच्चायुक्तं समयनष्टस्येति, आह च- कह / वा सव्वं खणियं विनाय?, जइ मई सुयाओत्ति / तदसंखसमयसुत्तत्थगहणपरिणामओ जुत्तं // 1 // नउ पइसमयविणासे जेणेक्केक्कक्खरंपि विशेषविचारः य पयस्स।संखाईयसमइयं संखेज्जाई पयंताई॥२॥संखेज्जपयं वक्कं तदत्थगहणपरिणामओ होज्जा / सबखणभंगनाणं तदजुत्तं समयनट्ठस्स॥ 3 // (विशेषाव०२४०१-०३) इति, तथा सर्वथोच्छेदे तृप्त्यादयो न घटन्ते, पूर्वसंस्कारानुवृत्तावेव तेषां युज्यमानत्वाद्, आह. च-तित्ती समो किलामो सारिक्खविवक्खपच्चयाईणि / अज्झयणं झाणं भावणा य का सव्वनासंमि?॥१॥ (विशेषाव० २४०४)त्ति, तत्र तृप्ति:- ध्राणिः श्रमः- अध्वादिखेदः क्लमो- ग्लानिः सादृश्य-साधर्म्य विपक्षो-वैधऱ्या प्रत्ययः- अवबोधः, शेषपदानि / Oनैव सर्वथा विनाशोऽद्धापर्यायमात्रनाशे / स्वपरपर्यायानन्तधर्मस्य वस्तुनो युक्तः॥१॥ कथं वा सर्वं क्षणिक विज्ञातं? यदि मतिःश्रुतादिति। तदसङ्ख्यसमयसूत्रार्थग्रहणपरिणामतो युक्तम् // 1 // नैव प्रतिसमयविनाशे येनैकैकमक्षरमपि पदस्य / संख्यातीतसामयिक संख्येयानि पदं तानि ॥२॥संख्येयपदं वाक्यं तदर्थग्रहणपरिणामतो भवेत् / सर्वक्षणभङ्गज्ञानं तदयुक्तं समयनष्टस्य // 3 // तृप्तिः श्रमः क्लमः सादृश्यविपक्षप्रत्ययादयः / अध्ययनध्याने भावना च का सर्वनाशे // 1 // // 22 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy