SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ तृतीयोद्देशक: यान-युग्यसारथि-हय // 427 // सारथिः- शाकटिको, योजयिता शकटे गवादीनां न वियोजयिता- मोक्ता, अन्यस्तु वियोजिता न तु योजयितेति, एवं चतुर्थमध्ययन चतु:स्थानम्, शेषावपि, नवरं चतुर्थः खेटयत्येवेति, अथवायोक्त्रयन्तं प्रयुङ्क्ते यःसयोकत्रापयिता वियोक्त्रयतः प्रयोक्त्रातु वियोक्त्रापयितेति, लोकोत्तरपुरुषविवक्षायांतुसारथिरिव सारथिर्योजयिता-संयमयोगेषु साधूनां प्रवर्त्तयिता, वियोजयिता तु- तेषामे-8 सूत्रम् 320 वानुचितानां निवर्त्तयितेति, यानसूत्रवद् हयगजसूत्राणीति, जुग्गारिय त्ति युग्यस्य चर्या- वहनंगमनमित्यर्थः, क्वचित्तु जुग्गायरिय गज-युग्यत्ति पाठः, तत्रापि युग्याचर्येति, पथयायि एकं युग्यं भवति नोत्पथयायीत्यादिश्चतुर्भङ्गी, इह च युग्यस्य चर्याद्वारेणैव निर्देशे चर्या-पुष्प फलोपमैः चतुर्विधत्वेनोक्तत्वात् तच्चर्याया एवोद्देशेनोक्तं चातुर्विध्यमवसेयमिति, भावयुग्यपक्षे तु युग्यमिव युग्यं- संयमयोगभरवोढा पुरुष चतुर्भङ्ग्यः साधुः, सच पथियाय्यप्रमत्त उत्पथयायी लिङ्गावशेष उभययायी प्रमत्तश्चतुर्थः सिद्धः, क्रमेण सदसदुभयानुभयानुष्ठानरूपत्वाद् प्रव्राजनो देशनाअथवा पथ्युत्पथयोः स्वपरसमयरूपत्वाद्यायित्वस्य च गत्यर्थत्वेन बोधपर्यायत्वात् स्वसमयपरसमयबोधापेक्षयेयं चतुर्भङ्गी शिष्याः, नेयेति, एकं पुष्पं रूपसम्पन्नं न गन्धसम्पन्नमाकुलीपुष्पवद् द्वितीयञ्च बकुलस्येव तृतीयं जातेरिव चतुर्थं बदर्यादेरिवेति, पुरुषो रूपसम्पन्नो- रूपवान् सुविहितरूपयुक्तो वेति 7 जाति 6 कुल 5 बल 4 रूप 3 श्रुत 2 शील 1 चारित्रलक्षणेषु सप्तसु पदेषु नाराधनयो रत्नाधिकादि एकविंशतौ द्विकसंयोगेषु एकविंशतिरेव चतुर्भङ्गिकाः कार्याः सुगमाश्चेति, आमलकमिव मधुरं यदन्यद् आमलकमेव वा निर्ग्रन्थ निर्ग्रन्थीमधुरमामलकमधुरं मुद्दिय त्ति मृद्वीका- द्राक्षा तद्वत्सैव वा मधुरं मृद्वीकामधुरं क्षीरवत् खण्डवच्च मधुरमिति विग्रहो, यथैतानि क्रमेणेषद्बहुबहुतरबहुतममाधुर्यवन्ति तथा ये आचार्या ईषद्बहुबहुतरबहुतमोपशमादिगुणलक्षणमाधुर्यवन्तस्ते तत्समानतया व्यपदिश्यन्त इति, आत्मवैयावृत्त्यकरोऽलसो विसम्भोगिकोवा परवैयावृत्त्यकरः स्वार्थनिरपेक्षःस्वपरवैयावृत्त्यकरःस्थविरकल्पिकः कोऽपि उभयनिवृत्तोऽनशनविशेषप्रतिपन्नकादिरिति, करोत्येवैको वैयावृत्त्यं निःस्पृहत्वात् 1 प्रतीच्छत्येवान्य द्याचार्य आराधना श्रावकश्राविकाच // 427 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy