SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ययन श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ मकस्थानम्, सूत्रम् 2 // 20 // अवयति. साधनम्, धनम्, सामान्य आत्मर प्रतिभासमानत्वाद् अवयववन्नीलवद्वा, न चायमसिद्धो हेतुः, तथाप्रतिभासस्यानुभूयमानत्वात्, नाप्यनैकान्तिकत्वविरुद्धत्वे, प्रथममध सर्ववस्तुव्यवस्थायाः प्रतिभासाधीनत्वाद्, अन्यथा न किञ्चनापि वस्तु सिध्येदिति / भवतु नामावयविद्रव्यं केवलमात्मा न विद्यते, तस्य प्रत्यक्षादिभिरनुपलभ्यमानत्वादिति, तथाहि-न प्रत्यक्षग्राह्योऽसावतीन्द्रियत्वात्, नाप्यनुमानग्राह्यः, अनुमानस्य द्रव्यार्थलिङ्गलिङ्गिनोः साक्षात्सम्बन्धदर्शनेन प्रवृत्तेरिति, आगमगम्योऽपिनासौ, आगमानामन्योऽन्यं विसंवादादिति, अत्रोच्यते, प्रदेशार्थता विचारः, केयमनुपलभ्यमानता? किमेकपुरुषाश्रिता सकलपुरुषाश्रिता वा? यद्येकपुरुषाश्रिता न तयाऽऽत्माभावः सिध्यति, सत्यपि / वस्तुनि तस्याः सम्भवाद्, न हि कस्यचित् पुरुषविशेषस्य घटाद्यर्थग्राहकं प्रमाणं न प्रवृत्तमिति सर्वत्र सर्वदा तदभावो निर्णेतुं शक्य इति, न हि प्रमाणनिवृत्तौ प्रमेयं विनिवर्त्तते, प्रमेयकार्यत्वात् प्रमाणस्य, न च कार्याभावे कारणाभावो दृष्ट / इत्यनैकान्तिकताऽनुपलम्भहेतोः, सकलपुरुषाश्रितानुपलम्भस्त्वसिद्ध इत्यसिद्धो हेतुः, न ह्यसर्वज्ञेन सर्वे पुरुषाः सर्वदा विशेषविचारः सर्वत्रात्मानं न पश्यन्तीति वक्तुं शक्यमिति, किञ्च-विद्यते आत्मा, प्रत्यक्षादिभिरुपलभ्यमानत्वात्, घटवदिति, नचायमसिद्धो हेतुः, यतोऽस्मदादिप्रत्यक्षेणाप्यात्मा तावद् गम्यत एव, आत्मा हि ज्ञानादनन्यः, आत्मधर्मत्वात् ज्ञानस्य, तस्य च स्वसंविदितरूपत्वात्, स्वसंविदितत्वञ्च ज्ञानस्य नीलज्ञानमुत्पन्नमासीदित्यादिस्मृतिदर्शनात्, न ह्यस्वसंविदिते ज्ञाने स्मृतिप्रभवो युज्यते, प्रमात्रन्तरज्ञानस्यापि स्मृतिगोचरत्वप्रसङ्गादिति, तदेवं तदव्यतिरिक्तज्ञानगुणप्रत्यक्षत्वे आत्मा गुणी प्रत्यक्ष एव, रूपगुणप्रत्यक्षत्वे घटगुणिप्रत्यक्षत्ववदिति, उक्तञ्च-गुणपच्चक्खत्तणओ गुणी वि जीवो घडोव्व पञ्चक्खो। घडओ वि घेप्पइ गुणी // 20 // गुणमित्तग्गहणओ जम्हा॥१॥ (विशेषाव० 1558-59-60) तथा- अण्णोऽणन्नो व गुणी होज्ज गुणेहिं?, जइ णाम सोऽणन्नो। Oगुणप्रत्यक्षत्वात् गुण्यपि जीवो घट इव प्रत्यक्षः / घट इव गृह्यते गुणी गुणमात्रग्रहणात् यस्मात्॥१॥ अन्योऽनन्यो वा गुणी घडओब धिप्पइ (मु०)।
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy