________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 19 // विचारः, साधनम्, आत्मसाधनम्, सामान्य चैकत्वं कथञ्चिदेव, तथाहि- द्रव्यार्थतयैकत्वमेकद्रव्यत्वादात्मनः,प्रदेशार्थतया त्वनेकत्वमसङ्खयेयप्रदेशात्मकत्वात् तस्येति, प्रथममध्ययनतत्र द्रव्यं च तदर्थश्चेति द्रव्यार्थस्तस्य भावो द्रव्यार्थता- प्रदेशगुणपर्यायाधारता अवयविद्रव्यतेतियावत्, तथा प्रकृष्टो देशः। मेकस्थानम्, सूत्रम् 2 प्रदेशो- निरवयवोंऽशः सचासावर्थश्चेति प्रदेशार्थस्तस्य भावः प्रदेशार्थता-गुणपर्यायाधारावयवलक्षणार्थतेतियावत्, नन्वव- द्रव्यार्थयवि द्रव्यमेव नास्ति, विकल्पद्वयेन तस्यायुज्यमानत्वात्, खरविषाणवत्, तथाहि-अवयविद्रव्यमवयवेभ्यो भिन्नमभिन्नं वा प्रदेशार्थतास्याद्?, न तावदभिन्नमभेदेहि अवयविद्रव्यवदवयवानामेकत्वंस्याद्, अवयववद्वाऽवयविद्रव्यस्याप्यनेकत्वंस्याद्, अन्यथा अवयविभेद एव स्याद्, विरुद्धधर्माध्यासस्य भेदनिबन्धनत्वादिति, भिन्नं चेत् तत्तेभ्यस्तदा किमवयविद्रव्यं प्रत्येकमवयवेषु सर्वात्मना समवैति देशतो वेति? यदि सर्वात्मना तदाऽवयवसङ्ख्यमवयविद्रव्यं स्यात् कथमेकत्वं तस्य?अथ देशैः समवैति ततो यैर्देशैरवयवेषु तद्वर्त्तते तेष्वपि देशेषु तत्कथं प्रवर्तते देशतः सर्वतो वेति?, सर्वतश्चेत्तदेव दूषणम्, देशतश्चेत् तेष्वपि देशेषु विशेषविचारः कथमित्यादिरनवस्था स्यादिति, अत्रोच्यते, यदुक्तं-'विकल्पद्वयेन तस्यायुज्यमानत्वा' दिति तदयुक्तम्, एकान्तेन भेदाभेदयोरनभ्युपगमात्, अवयवा एव हि तथाविधैकपरिणामितया अवयविद्रव्यतया व्यपदिश्यन्ते, त एव च तथाविधविचित्रपरिणामापेक्षया अवयवा इति, अवयविद्रव्याभावे तु एते घटावयवा एते च पटावयवा इत्येवमसङ्कीर्णावयवव्यवस्था न स्यात्, तथा / च प्रतिनियतकार्यार्थिनां प्रतिनियतवस्तूपादानं नस्यात्, तथा च सर्वमसमञ्जसमापनीपोत, सन्निवेशविशेषाद् घटाद्यवयवानां प्रतिनियतता भविष्यतीति चेत्, सत्यम्, केवलं स एव सन्निवेशविशेषोऽवयविद्रव्यमिति, यच्चोच्यते- 'विरुद्धधर्माध्यासो भेदनिबन्धनमि'ति, तदपिन सूक्तम्, प्रत्यक्षसंवेदनस्य परमार्थापेक्षया भ्रान्तत्वेन संव्यवहारापेक्षया त्वभ्रान्तत्वेनाभ्युपगमादिति, यदि नाम भ्रान्तमभ्रान्तं कथमित्येवमत्रापि वक्तुं शक्यत्वादिति। किञ्च-विद्यते अवयविद्रव्यम्, अव्यभिचारितया तथैव