________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 18 // सूत्रम् 2 द्रव्यार्थ सामान्य नया य समगं तु वच्चंति // 1 // (विशेषाव० १००१)त्ति, एतेषां चायं विषय उक्तो भाष्यकारेण-होइ कयत्थो वोत्तुं सपयच्छेयं सुल प्रथममध्ययन मेकस्थानम्, सुयाणुगमो। सुत्तालावन्नासो नामाइन्नासविनियोगं॥१॥सुत्तप्फासियनिज्जुत्तिनिओगो सेसओ पयत्थाई। पायं सो च्चिय नेगमनयाइमयगोयरो होइ // 2 // (विशेषाव०१००९-१०)त्ति, एवं प्रतिसूत्रं स्वयमनुसरणीयम्, वयं तु संक्षेपार्थं क्वचित्किञ्चिदेव भणिष्याम इति // यदाख्यातं भगवता तदधुनोच्यते-तत्र सकलपदार्थानां सम्यग्मिथ्याज्ञानश्रद्धानानुष्ठानैर्विषयीकरणेनोपयोगनयनादात्मनः प्रदेशार्थता विचारः, सर्वपदार्थप्राधान्यमतस्तद्विचारं तावदादावाह अवयविएगे आया ॥सूत्रम् // साधनम्, आत्मसाधनम्, एकोन व्यादिरूप आत्मा-जीवः, कथञ्चिदिति गम्यते, तत्र अतति-सततमवगच्छति 'अत सातत्यगमन' इति वचनाद् अतधातोर्गत्यर्थत्वाद्गत्यर्थानांचज्ञानार्थत्वादनवरतं जानातीति निपातनादात्मा-जीवः, उपयोगलक्षणत्वादस्य सिद्धसंसार्य- विशेषविचारः वस्थाद्वयेऽप्युपयोगभावेन सततावबोधभावात्, सततावबोधाभावेचाजीवत्वप्रसङ्गात्, अजीवस्य च सतः पुनर्जीवत्वाभावात्, भावे चाकाशादीनामपि तथात्वप्रसङ्गात्, एवञ्च जीवानादित्वाभ्युपगमाभावप्रसङ्ग इति, अथवा अतति-सततं गच्छति स्वकीयान् ज्ञानादिपर्यायानित्यात्मा, नन्वेवमाकाशादीनामप्यात्मशब्दव्यपदेशप्रसङ्गः, तेषामपिस्वपर्यायेषु सततगमनाद्, अन्यथा अपरिणामित्वेनावस्तुत्वप्रसङ्गादिति, नैवम्, व्युत्पत्तिमात्रनिमित्तत्वादस्य, उपयोगस्यैव च प्रवृत्तिनिमित्तत्वाद्, जीव एव आत्मा नाकाशादिरिति, यद्वा संसार्यपेक्षया नानागतिषु सततगमनात् मुक्तापेक्षया च भूततद्भावत्वादात्मेति, तस्य | भवति कृतार्थ उक्त्वा सपदच्छेदं सूत्रं सूत्रानुगमः / सूत्रालापकन्यासो नामादिन्यासविनियोगम् // 11 // सूत्रस्पर्शिकनियुक्तिनियोगः शेषकः पदार्थादिः। प्रायः स एव नैगमनयादिमतगोचरो भवति // 2 // 70 पदार्थज्ञानप्रा० प्र.10 नादतो धातो (मु०)। * ०लावगनासो (मु०)।