________________ भाग-१ श्रीस्थानाङ्गतप्तमिलितसंकुट्टितलोहशलाकासम्बन्धसमानं निकाचितमिति, प्रकृत्यादिविशेषस्तूभयत्रापि सामान्यलक्षणानुसारेण नेय चतुर्थमध्ययनं | श्रीअभय० चतुःस्थानम्, इति, विशेषतो बन्धादिस्वरूपजिज्ञासुना कर्मप्रकृतिसङ्ग्रहणिरनुसरणीयेति // इहानन्तरमल्पबहुत्वमुक्तं, तत्रात्यन्तमल्पमेकं वृत्तियुतम् द्वितीयोद्देशकः शेषं त्वपेक्षया बहु इत्यल्पबहुत्वाभिधायिन एककतिसर्वशब्दान् चतुःस्थानकेऽवतारयन् चत्तारी त्यादि सूत्रत्रयमाह सूत्रम् / / 396 // चत्तारि एक्का पं० तं०- दविए एक्कते माउ एक्कते (पएक्कए) पज्जते इक्वते संगहे इक्कते॥सूत्रम् 297 / / 297-299 द्रव्याघेकचत्तारि कती पं० तं०-दवितकती माउयकती पज्जवकती संगहकती।सूत्रम् 298 // कतिचत्तारि सव्वा पं० तं०-नामसव्वए ठवणसव्वए आएससव्वते निरवसेससव्वते॥सूत्रम् 299 // नामादिसर्वाः एकसङ्ख्योपेतानि द्रव्यादीनि स्वार्थिककप्रत्ययोपादानादेककानि, तत्र द्रव्यमेवैककं द्रव्यैककं सचित्तादिभेदात् त्रिविधमिति, माउपएक्कए त्ति मातृकापदैककं- एकं मातृकापदम्, तद्यथा- उप्पन्ने इवेत्यादि, इह प्रवचने दृष्टिवादे समस्तनयवादबीजभूतानि मातृकापदानि भवन्ति, तद्यथा- उप्पन्ने इ वा विगए इ वा धुवे इ वत्ति, अमूनि च मातृकापदानीव अ आ इत्येवमादीनि सकलशब्दशास्त्रार्थव्यापारव्यापकत्वान्मातृकापदानीति, पर्यायैकक- एकः पर्यायः, पर्यायो विशेषो धर्म इत्यनर्थान्तरम्, सचानादिष्टो वर्णादिरादिष्टः कृष्णादिरिति, सङ्घहैककः शालिरिति, अयमर्थः- सङ्ग्रहः-समुदायस्तमाश्रित्यैकवचनगर्भशब्दप्रवृत्तिस्तथा चैकोऽपि शालिःशालिरित्युच्यते, बहवोऽपि शालयः शालिरिति, लोके तथादर्शनादिति, क्वचित्पाठः दविए एक्कए इत्यादि, तत्र द्रव्ये विषयभूते एकक इत्यादिव्याख्येयमिति / कतीति प्रश्नगर्भापरिच्छेदवत्सङ्ख्यावचनो बहुवचनान्तस्तत्र द्रव्याणि च तानि कति च द्रव्यकति कति द्रव्याणीत्यर्थो, द्रव्यविषयो वा कतिशब्दो द्रव्यकतिः, एवं मातृकापदादिष्वपि, नवरं सङ्ग्रहाः शालियवगोधूमा इत्यादि। नाम च तत्सर्वं च नामसर्वं सचेतनादेर्वा वस्तुनो यस्य सर्वमिति // 396 //