________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 393 // चतुर्थमध्ययनं ] चतुःस्थानम्, द्वितीयोद्देशकः सूत्रम् 296 सप्रभेदबन्धोपक्रमबन्धनोदीरणोपशमविपरिणामोपक्रमाल्पबहुकसंक्रम निधत्त स्तथा तस्यैव मोदकस्य यथा स्निग्धमधुरादिरेकगुणद्विगुणादिभावेन रसोभवति, एवं कर्मणोऽपि देशसर्वघातिशुभाशुभतीव्रमन्दादिरनुभागबन्धः, तथा तस्यैव मोदकस्य यथा कणिक्कादिद्रव्याणां परिणामवत्त्वं एवं कर्मणोऽपि पुद्गलानांप्रतिनियतप्रमाणता प्रदेशबन्ध इति / उपक्रम्यते-क्रियतेऽनेनेत्युपक्रमः- कर्मणो बद्धत्वोदीरितत्वादिना परिणमनहेतुर्जीवस्य शक्तिविशेषो योऽन्यत्र करणमिति रूढ उपक्रमणं वोपक्रमो- बन्धनादीनामारम्भः, स्यादारम्भ उपक्रम (अमरकोश 689) इति वचनादिति, तत्र बन्धनं- कर्मापुद्गलानां जीवप्रदेशानां च परस्परं सम्बन्धनम्, इदं च सूत्रमात्रबद्धलोहशलाकासम्बन्धोपममवगन्तव्यं तस्योपक्रमउक्तार्थो बन्धनोपक्रमः, आसकलितावस्थस्य वा कर्मणो बद्धावस्थीकरणंबन्धनंतदेवोपक्रमो-वस्तुपरिकर्मरूपो बन्धनोपक्रमो, वस्तुपरिकर्मवस्तुविनाशरूपस्याप्युपक्रमस्याभिहितत्वादिति, एवमन्यत्रापि, नवरमप्राप्तकालफलानां कर्मणामुदये प्रवेशनमुदीरणा, उक्तंच-जं करणेणोकड्डिय उदए दिज्जइ उदीरणा एसा। पगईठिइअणुभागप्पएसमूलुत्तरविभागा॥१॥ (कर्मप्र०४/१)तथा उदयोदीरणानिधत्तनिकाचनाकरणानामयोग्यत्वेन कर्मणोऽवस्थापनमुपशमनेति, उक्तंच-ओवट्टणउववट्टण संकमणाइंच तिन्नि करणाइं (कर्मप्र०५/६७) इति, उपशमनायां सन्तीति प्रक्रमः, तथा विविधैः प्रकारैः कर्मणां सत्तोदयक्षयक्षयोपशमोद्वर्त्तनापवर्त्तनादिभिरेतद्रूपतयेत्यर्थः, गिरिसरिदुपलन्यायेन द्रव्यक्षेत्रादिभिर्वा करणविशेषेण वाऽवस्थान्तरापादनं विपरिणामना, इह च विपरिणामना बन्धनादिषु तदन्येष्वप्युदयादिष्वस्तीति सामान्यरूपत्वा भेदेनोक्तेति / बन्धनोपक्रमोबन्धनकरणं चतुर्द्धा, तत्र प्रकृतिबन्धनस्योपक्रमो जीवपरिणामो योगरूपस्तस्य प्रकृतिबन्धहेतुत्वादिति, स्थितिबन्धनस्यापि स एव, नवरं कषायरूपः, स्थितेः कषायहेतुकत्वादिति, अनुभागबन्धनोपक्रमोऽपि परिणाम एव, नवरंकषायरूपः, प्रदेश©यत्करणेनाकृष्योदये दीयत एषोदीरणा / प्रकृतिस्थित्यनुभागप्रदेशमूलोत्तरविभागाः॥१॥ ॐउद्वर्तनापवर्त्तनसंक्रमणरूपाणि च त्रीणि करणानि (देशोपशमनायाम्) / निकाचनानां चातुर्विध्यम्