________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 392 // चउव्विहे बंधे पं० तं०- पगतिबंधे ठितीबंधे अणुभावबंधे पदेसबंधे। चउव्विहे उवक्कमे पं० तं०- बंधणोवक्कमे उदीरणोवक्कमे उवसमणोवक्कमे विप्परिणामणोवक्कमे / बंधणोवक्कमे चउव्विहे पं० तं०- पगतिबंधणोवक्कमे ठितिबंधणोवक्कमे अणुभावबंधणोवक्कमे पदेसबंधणोवक्कमे / उदीरणोवक्कमे चउव्विहे पं० तं०-पगतीउदीरणोवक्कमे ठितीउदीरणोवक्कमे अणुभावउदीरणोवक्कमे पदेसउदीरणोवक्कमे / उवसमणोवक्कमे चउविहे पं० त०- पगतिउवसामणोवक्कमे ठिति० अणु० पतेसुवसामणोवक्कमे / विष्परिणामणोवक्कमे चउव्विहे पं०२०- पगति० ठिती० अणु० पतेसविप्प० / चउव्विहे अप्पाबहुए पं० तं०- पगतिअप्पाबहुए ठिती० अणु० पतेसप्पाबहुते / चउविहे संकमे पं० त०- पगतिसंकमे ठिती० अणु०पएससंकमे / चउविहे णिधत्ते पं० तं०- पगतिणिधत्ते ठिती० ___ अणु० पएसणिधत्ते / चउव्विहे णिकायिते पं० तं०- पगतिणिकायिते ठिति० अणु० पएसणिकायिते॥सूत्रम् 296 // प्रकटं चैतद्, नवरं सकषायत्वाद् जीवस्य कर्मणो योग्यानां पुद्गलानां बन्धनं- आदानं बन्धस्तत्र कर्मणः प्रकृतयोऽशा भेदा ज्ञानावरणीयादयोऽष्टौ तासां प्रकृतेर्वा- अविशेषितस्य कर्मणो बन्धः प्रकृतिबन्धस्तथा स्थितिस्तासामेवावस्थान जघन्यादिभेदभिन्नं तस्या बन्धो- निर्वर्त्तनं स्थितिबन्धस्तथा अनुभावो- विपाकस्तीवादिभेदो रस इत्यर्थस्तस्य बन्धोऽनुभावबन्धस्तथा जीवप्रदेशेषु कर्मप्रदेशानामनन्तानन्तानांप्रतिप्रकृति प्रतिनियतपरिमाणानां बन्धः- सम्बन्धनं प्रदेशबन्धः, परिमितपरिमाणगुडादिमोदकबन्धवदिति, एवञ्च मोदकदृष्टान्तं वर्णयन्ति वृद्धाः- यथा किल मोदकः कणिक्कागुडघृतकटुभाण्डादिद्रव्यबद्धः सन् कोऽपि वातहरः कोऽपि पित्तहरः कोऽपि कफहरः कोऽपि मारकः कोऽपि बुद्धिकरः कोऽपि व्यामोहकरः, एवं कर्मप्रकृतिः काचिज्ज्ञानमावृणोति काचिद्दर्शनं काचित् सुखदुःखादिवेदनमुत्पादयतीति, तथा तस्यैव मोदकस्य यथाऽविनाशभावेन कालनियमरूपा स्थितिर्भवति, एवञ्च कर्मणोऽपितद्भावेन नियतकालावस्थानं स्थितिबन्ध चतुर्थमध्ययन चतुःस्थानम्, द्वितीयोद्देशकः सूत्रम् 296 सप्रभेदबन्धोपक्रमबन्धनोदीरणोपशमविपरिणामोपक्रमाल्पबहुकसंक्रमनिधत्तनिकाचनानां चातुर्विध्यम् // 392 //