________________ श्रीस्थानाङ्गनयानुसारेण सूक्ष्मजीवादिभावकथनम्, अन्ये त्वभिदधति- आचारादयो ग्रन्था एव परिगृह्यन्ते, आचाराद्यभिधानादिति, चतुर्थमध्ययनं श्रीअभय० अस्याश्चायं रसः- विजाचरणं च तवो पुरिसक्कारो य समिइगुत्तीओ। उवइस्सइखलु जंसो कहाएँ अक्खेवणीइरसो॥१॥(दशवै०नि० चतुःस्थानम्, वृत्तियुतम् 8 द्वितीयोद्देशकः भाग-१ 195) इति, स्वसमयं- स्वसिद्धान्तं कथयति, तद्गुणानुद्दीपयति पूर्वम्, ततस्तं कथयित्वा परसमयं कथयति, तद्दोषान् सूत्रम् 282 // 376 // दर्शयतीत्येका, एवं परसमयकथनपूर्वकं स्वसमयं स्थापयिता- स्वसमयगुणानां स्थापको भवतीति द्वितीया, सम्मावाय सप्रभेदानां मित्यादि, अस्यायमर्थः-परसमयेष्वपिघुणाक्षरन्यायेन यो यावान् जिनागमतत्त्ववादसदृशतया सम्यग्- अविपरीततत्त्वानां स्त्यादिवादः सम्यग्वादस्तं कथयति, तं कथयित्वा तेष्वेव यो जिनप्रणीततत्त्वविरुद्धत्वान्मिथ्यावादस्तं दोषदर्शनतः कथयतीति आक्षेपण्यातृतीया, परसमयेष्वेव मिथ्यावादं कथयित्वा सम्यग्वादं स्थापयिता भवतीति चतुर्थी, अथवा सम्यग्वादोऽस्तित्वम्, दिधर्मकथानां च स्वरूपम् मिथ्यावादो- नास्तित्वम्, तत्र आस्तिकवादिदृष्टीरुक्त्वा नास्तिकवादिदृष्टीर्भणतीति तृतीया, एतद्विपर्यया चतुर्थीति, इहलोको-मनुष्यजन्म तत्स्वरूपकथनेन संवेगनी इहलोकसंवेगनी,सर्वमिदंमानुषत्वमसारमध्रुवं कदलीस्तम्भसमानमित्यादिरूपा, एवं परलोकसंवेदनी देवादिभवस्वभावकथनरूपा- देवा अपाविषादभयवियोगादिदुःखैरभिभूताः, किं पुनस्तिर्यगादय इति, आत्मशरीरसंवेगनी यदेतदस्मदीयं शरीरमेतदशुचि अशुचिकारणजातमशुचिद्वारविनिर्गतमिति न प्रतिबन्धस्थानमित्यादिकथनरूपा, एवं परशरीरसंवेगनी, अथवा परशरीरं- मृतकशरीरमिति, इहलोके दुश्चीर्णानि-चौर्यादीनि कर्माणि-क्रिया इहलोके दुःखमेव कर्मद्रुमजन्यत्वात् फलंदुःखफलंतस्य विपाकोऽनुभवो दुःखफलविपाकस्तेन संयुक्तानि दुःखफलविपाकसंयुक्तानि भवन्ति चौरादीनामिवेत्येका, एवं नारकाणामिवेति द्वितीया, आगर्भाव्याधिदारिद्याभिभूताना 0 विद्याचरणं च तपः पुरुषकारश्च समितिगुप्तयः / उपदिश्यते खलु यत् स कथाया आक्षेपण्या रसः॥ 1 // 32 376 //