________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 16 // 10 (यदा यदा हि धर्मस्य, ग्लानिर्भवति भारत!। अभ्युत्थानमधर्मस्य, तदाऽऽत्मानं सृजाम्यहम्॥२॥) एवं ह्यनुन्मूलितरागादिदोष- प्रथममध्ययनत्वात् तद्वचसोऽप्रामाण्यमेव स्यात्, निःशेषोन्मूलने हि रागादीनां कुतः पुनरिहागमनसम्भव इति?, अथवा 'आयुष्मता मेकस्थानम्, सूत्रम् 1 प्राणधारणधर्मवता न तु सदा संशुद्धेन, तस्याकरणत्वेनाख्यातृत्वासम्भवादिति, यदिवा-आवसंतेणं ति मयेत्यस्य विशेषणम्, संहितादितत आङिति-गुरुदर्शितमर्यादया वसता, अनेन तत्त्वतो गुरुमर्यादावर्तित्वरूपत्वात् गुरुकुलवासस्य तद्विधानमर्थत उक्तम्, क्रमेण व्याख्या, ज्ञानादिहेतुत्वात्तस्य, उक्तञ्च-णाणस्स होइ भागी थिरयरओ दंसणे चरित्ते य / धन्ना आवकहाए गुरुकुलवासंन मुंचंति॥१॥गीयावासो श्रुतनिक्षेपा: 4, | रती धम्मे, अणाययणवज्जणं / निग्गहो य कसायाणं, एयं धीराण सासणं॥२॥ (विशेषाव० 3459-60) ति, अथवा 'आमुसंतेणं आयुर्निक्षेपा: ति आमृशता भगवत्पादारविन्दं भक्तितः करतलयुगलादिना स्पृशता, अनेनैतदाह-अधिगतसकलशास्त्रेणापि गुरुविश्रामणादि विनयकृत्यं न मोक्तव्यम्, उक्तं हि-जहाऽऽहिअग्गी जलणं णमसे, णाणाहुतीमंतपयाभिसित्तं / एवायरियं उवचिट्ठएज्जा, अणंतणाणोवगओऽवि संतो॥१॥(दशवै०९/१/११) त्ति, यद्वा 'आउसंतेणं' ति आजुषमाणेन- श्रवणविधिमर्यादया गुरून् / सेवमानेन, अनेनाप्येतदाह- विधिनैवोचितदेशस्थेन गुरुसकाशाच्छ्रोतव्यम्, न तु यथाकथञ्चित्, यत आह-निद्दाविगहापरिवज्जिएहिं गुत्तेहिं पंजलिउडेहिं / भक्तिबहुमाणपुव्वं उवउत्तेहिं सुणेयव्वं॥१॥(आव०नि०७०७, पञ्चवस्तु 1006) इत्यादि, एवमुक्तः। पदार्थः, पदविग्रहस्तु सामासिकपदविषयः,सचाख्यातमित्यादिषु दर्शित इति / इदानींचालनाप्रत्यवस्थाने, तेच शब्दतो 0 अशरीरत्वेन / ७०वर्तिस्वरूप० (मु०)। 0 ज्ञानस्य भवति भागी स्थिरतरो दर्शने चारित्रे च / धन्या यावत्कथं गुरुकुलवासं न मुञ्चन्ति // 1 // गीतावासो // 16 // रतिधर्मे अनायतनवर्जनम्। निग्रहश्च कषायाणामेतत् धीराणां शासनम्॥ 2 // 0 यथाऽऽहिताग्निवलनं नमस्यति नानाहुतिमन्त्रपदाभिषिक्तम्। एवमाचार्यमुपतिष्ठेत / अनन्तज्ञानोपगतोऽपि सन् // 1 // O गुरुनासेव० (मु०)। 0 परिवर्जितनिद्राविकथैगुप्तैः प्राञ्जलिपुटैः। भक्तिबहुमानपूर्वमुपयुक्तैः श्रोतव्यम् // 1 //