________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 374 // चतुर्थमध्ययनं चतुःस्थानम्, द्वितीयोद्देशकः सूत्रम् 282 सप्रभेदानां स्त्र्यादिविकथानाम् आक्षेपण्यादिधर्मकथानां च स्वरूपम् अन्ध्रीप्रभृतीनामन्यतमाया रूपस्य यत्प्रशंसादि सा रूपकथा, यथा- चन्द्रवक्त्रा सरोजाक्षी, सद्गीः पीनघनस्तनी। किं लाटी नो मता साऽस्य, देवानामपि दुर्लभा? // 1 // इति, तासामेव अन्यतमायाः कच्छाबन्धादिनेपथ्यस्य यत्प्रशंसादि नेपथ्यकथेति, यथा-धिनारीरौदीच्या बहुवसनाच्छादिताङ्गलतिकत्वात् / यद्यौवनं न यूनां चक्षुर्मोदाय भवति सदा॥१॥ इति, स्त्रीकथायां चैते दोषाः- आयपरमोहदीरणं उड्डाहो सुत्तमाइपरिहाणी। बंभवयस्स अगुत्ती पसंगदोसा य गमणादी॥१॥ (निशीथभा० 121) उन्निष्क्रमणादय इत्यर्थः, तथा शाकघृतादीन्येतावन्ति तस्यां रसवत्यामुपयुज्यन्त इत्येवंरूपा कथा आवापकथा, एतावन्तस्तत्र पक्कापक्वान्नभेदा व्यञ्जनभेदा वेति निर्वापकथेति, तित्तिरादीनामियतां तत्रोपयोग इत्यारम्भकथा, एतावद्रविणंतत्रोपयुज्यत इति निष्ठानकथेति, उक्तञ्च-सागघयादावावो पक्कापक्को य होइ निव्वावो। आरंभ तित्तिराई णिट्ठाणं जा सयसहस्सं॥१॥ (निशीथभा० 123) इति, इह चामी दोषा:- आहारमन्तरेणवि गेहीओ जायए सइंगालं। अजिइंदिय ओदरियावाओ उ अणुन्नदोसा य॥२॥ (निशीथभा० 124) इति, तथा देशे मगधादौ विधिर्विरचना भोजनमणिभूमिकादीनां भुज्यते वा यद्यत्र प्रथमतयेति देशविधिस्तत्कथा देशविधिकथा, एवमन्यत्रापि, नवरं विकल्पः- सस्यनिष्पत्तिर्वप्रकूपादिदेवकुलभवनादिविशेषश्चेति, छन्दोगम्यागम्यविभागो यथा लाटदेशे मातुलभगिनी गम्या अन्यत्रागम्येति, नेपथ्यं- स्त्रीपुरुषाणां वेषः स्वाभाविको विभूषाप्रत्ययश्चेति, इह दोषा:- रागद्दोसुप्पत्ती सपक्खपरपक्खओय अहिगरणं / बहुगुण इमोत्ति देसो सोउंगमणंच अन्नेसिं॥१॥(निशीथभा० Oआत्मपरयोर्मोहोदीरणा उड्डाहः सूत्रादिपरिहानिः / ब्रह्मव्रतस्यागुप्तिः प्रसंगदोषा उन्निष्क्रमणं च॥१॥ शाकघृतादिरावापः पक्कापक्कश्च भवति निर्वापः। तित्तिराद्यारम्भो यावच्छतसहस्रादि निष्ठानम्॥१॥0 आहारमन्तरेणापि गृद्ध्या साङ्गारंजायते / अजितेन्द्रियता औदरिकवादस्तु अनुज्ञादोषश्च // 1 // रागद्वेषोत्पत्तिः स्वपक्षपरपक्षाभ्यामधिकरणं च / एष बहुगुणो देश इति श्रुत्वाऽन्येषां गमनं च // 1 // // 374 //