SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 359 // आदानं च- परिग्रहस्तयोर्द्वन्द्वैकत्वमथवा आदीयत इत्यादानं- परिग्राह्यं वस्तु तच्च धर्मोपकरणमपि भवतीत्यत आहबहिस्ताद्- धर्मोपकरणाद् बहिर्यदिति, इह च मैथुनं परिग्रहेऽन्तर्भवति, न ह्यपरिगृहीता योषिद् भुज्यत इति प्रत्याख्येयस्य प्राणातिपाताश्चतुर्विधत्वात् चतुर्यामता धर्मस्येति, इयं चेह भावना- मध्यमतीर्थकराणां विदेहकानां च चतुर्यामधर्मस्य पूर्वपश्चिमतीर्थकरयोश्च पञ्चयामधर्मस्य प्ररूपणा शिष्यापेक्षा, परमार्थतस्तु पञ्चयामस्यैवोभयेषामप्यसौ, यतः प्रथमपश्चिमतीर्थकरतीर्थसाधव ऋजुजडा वक्रजडाश्चेति, तत्त्वादेव परिग्रहो वर्जनीय इत्युपदिष्टे मैथुनवर्जनमवबोर्बु पालयितुंचन क्षमाः, मध्यमविदेहजतीर्थकरतीर्थसाधवस्तु ऋजुप्रज्ञत्वात् तद्बोद्धं वर्जयितुं च क्षमा इति, भवतश्चात्र श्लोको-पुरिमा उज्जुजड्डा उ, वक्कजड्डा य पच्छिमा। मज्झिमा उज्जुपन्ना उ, तेण धम्मे दुहा कए॥१॥ पुरिमाणं दुव्विसोज्झो उ, चरिमाणं दुरणुपालए। कप्पो मज्झिमगाणं तु, सुविसुज्झे सुपालए॥२॥(उत्तरा०नि०२३/२६-२७)इति / अनन्तरोक्तेभ्यः प्राणातिपातादिभ्योऽनुपरतोपरतानां दुर्गतिसुगती भवतस्तद्वन्तश्च ते दुर्गतेतरा भवन्तीति दुर्गतिसुगत्यात्मकपरिणामयोर्दुर्गतसुगतानां च भेदान् सूत्रचतुष्टयेनाह चत्तारि दुग्गतीतोपं० तं०-णेरइयदुग्गती तिरिक्खजोणियदुग्गती मणुस्सदुग्गती देवदुग्गई 1, चत्तारि सोग्गईओ पं० तं०- सिद्धसोगती देवसोग्गती मणुयसोग्गती सुकुलपञ्चायाति 2, चत्तारि दुग्गता पं० तं०- नेरइयदुग्गया तिरिक्खजोणियदुग्गता मणुयदुग्गता देवदुग्गता 3, चत्तारि सुग्गता पं० तं०- सिद्धसुगता जाव सुकुलपच्चायाया 4 // सूत्रम् 267 // ___ पढमसमयजिणस्सणंचत्तारि कम्मंसाखीणा भवंति-णाणावरणिज्जंदसणावरणिलं मोहणिज्जं अंतरातितं 1, उप्पन्ननाणदंसणधरे * प्रथमे ऋजुजडास्तु वक्रजडाश्च पाश्चात्याः। मध्यमास्तु ऋजुप्रज्ञास्तेन धर्मो द्विधा कृतः॥ 1 // पूर्वाणां दुर्विशोध्यस्तु चरमाणां दुरनुपाल्यः / कल्पो मध्यमानान्तु सुविशोध्यः स्वनुपाल्यश्च // 2 // चतुर्थमध्ययन चतुःस्थानम्, प्रथमोद्देशकः सूत्रम् 267-268 दुर्गतिसुगतिदुर्गतसुगताः प्रथमसमयजिनक्षेयकर्माशा: केवलिवेद्यकर्मांशाः प्रथमसमयसिद्धक्षेयकौशाश्च // 359 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy