________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 14 // प्रथममध्ययनमेकस्थानम्, सूत्रम् संहितादिक्रमेण व्याख्या, श्रुतनिक्षेपाः४, आयुर्निक्षेपा: 10 ष्टत्वाद्, यत उच्यते-सव्वे पाणा पियाउया अप्पियवहा सुहासाया दुक्खपडिकूला सव्वे जीविउकामा सव्वेसिं जीवियं पियंति, तथातृणायापि न मन्यन्ते, पुत्रदारार्थसम्पदः / जीवितार्थे नरास्तेन तेषामायुरतिप्रियम्॥१॥ इति, अथवा 'आयुष्मन्नित्यनेन ग्रहणBधारणादिगुणवते शिष्याय शास्त्रार्थो देय इति ज्ञापनार्थम्, सकलगुणाधारभूतत्वेनाशेषगुणोपलक्षणेन चिरायुर्लक्षणगुणेन शिष्यामन्त्रणमकारि, यत उक्तं-"वुढेऽवि दोणमेहे न कण्हभूमाउ लोट्टए उदयं / गहणधरणासमत्थे इय देयमछित्तिकारिंमि॥१॥ (विशेषा० 1458) विपर्यये तु दोष इति, आह च- आयरिए सुत्तम्मि य परिवाओ सुत्तअत्थपलिमंथो। अन्नेसिपि य हाणी पुट्ठाविन दुद्धदा वंझा॥१॥ (विशेषा० 1457) इति, तेने त्यनेन त्वाप्तत्वादिगुणप्रसिद्धताऽभिधायकेन प्रस्तुताध्ययनप्रामाण्यमाह, वक्तृगुणापेक्षत्वाद्वचनप्रामाण्यस्येति, भगवते त्यनेन तु प्रस्तुताध्ययनस्योपादेयतामाह, अतिशयवान् किलोपादेयः, तद्वचनमपि तथेति, अथवा तेणं ति अनेनोपोद्धातनिर्युक्त्यन्तर्गतं निर्गमद्वारमाह, यो हि मिथ्यात्वतमःप्रभृतिभ्यो दोषेभ्यो निर्गतस्ततो निर्गतमिदमध्ययनं क्षेत्रतोऽपापायां कालतो वैशाखशुद्धैकादश्यां पूर्वाह्ने भावे क्षायिके वर्तमानादिति, एवं च गुरुपर्वक्रमलक्षणः सम्बन्धोऽस्य प्रदर्शितो भवति, तथा तथाविधेन भगवता यदुक्तं तत् सप्रयोजनमेव भवतीति सामान्यतः सप्रयोजनता चास्योक्ता, न हि पुरुषार्थानुपयोगि भगवन्तो भाषन्ते, भगवत्त्वहानेः, अत एव चास्योपायोपेयभावलक्षणः सम्बन्धोऽपि दर्शितः, इदं हि भगवदाख्यातं ग्रन्थरूपापन्नमुपायः, पुरुषार्थस्तूपेय इति, अत एव चात्र श्रोतारः श्रवणे प्रवर्तिताः, यत:सिद्धार्थं सिद्धसम्बन्धं, श्रोतुं श्रोता प्रवर्त्तते / शास्त्रादौ तेन वक्तव्यः, सम्बन्धः सप्रयोजनः॥१॥ (मि० श्लो० वा० 17) इति, एव 0 सर्वे प्राणाः प्रियायुषोऽप्रियवधाः सुखास्वादाः प्रतिकूलदुःखाः सर्वे जीवितुकामाः सर्वेषां जीवितं प्रियम् / ॐ वृष्टेऽपि द्रोणमेधे न कृष्णभूमाल्लुठति उदकं / ग्रहणधारणसमर्थे एवं देयमच्छित्तिकारिणि // O आचार्ये सूत्रे च परिवादः सूत्रार्थविघ्नः। अन्येषामपि च हानिः स्पृष्टाऽपि न दुग्धदा वन्ध्या / / // 14