________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 354 // संसारोव्याख्यायतेस कालोऽपि संसार उच्यते अभेदाद्यथा प्रत्युपेक्षणाकरणात् कालोऽपि प्रत्युपेक्षणेति, तथा संसारशब्दार्थज्ञस्तत्रोपयुक्तोजीवपुद्गलयोर्वा संसरणमात्रमुपसर्जनीकृतसम्बन्धिद्रव्यं भावानांवौदयिकादीनां वर्णादीनांवा संसरणपरिणामो भावसंसार इति / अयञ्च द्रव्यादिसंसारोऽनेकनयैर्दृष्टिवादे विचार्यत इति दृष्टिवादसूत्रं चउब्विहे दिट्ठिवाए पं० तं०- परिकम्मं सुत्ताई पुव्वगए अणुजोगे॥सूत्रम् 262 // चउब्विहे पायच्छित्ते पं० तं०- णाणपायच्छित्ते दंसणपायच्छित्ते चरित्तपायच्छित्ते चियत्तकिच्चपायच्छित्ते 1 / चउब्विहे पायच्छित्ते पं०२०- परिसेवणापायच्छित्ते संजोयणापायच्छित्ते आरोअणापायच्छित्ते पलिउंचणापायच्छित्ते २॥सूत्रम् 263 // चउव्विहे दिट्ठिवाए इत्यादि, तत्र दृष्टयो दर्शनानि-नया उद्यन्ते- अभिधीयन्ते पतन्ति वा-अवतरन्ति यस्मिन्नसौ दृष्टिवादो दृष्टिपातोवा-द्वादशमङ्गम्, तत्र सूत्रादिग्रहणयोग्यतासंपादनसमर्थं परिकर्म गणितपरिकर्मवत् तच्च सिद्धसेनिकादि, सूत्राणीति ऋजुसूत्रादीनि द्वाविंशतिर्भवन्ति, इह सर्वद्रव्यपर्यायनयाद्यर्थसूचनातू सूत्राणीति, समस्तश्रुतात्पूर्वं करणात् पूर्वाणि, तानि चोत्पादपूर्वादीनि चतुर्दशेति, एतेषां चैवं नामप्रमाणानि, तद्यथा- उप्पाय 1 अग्गेणीयं 2 वीरियं 3 अत्थिनत्थि उ पवायं 4 / णाणपवायं 5 सच्चं 6 आयपवायं च 7 कम्मं च ८॥१॥पुव्वं पच्चक्खाणं 9 विजणुवायं 10 अवंझ 11 पाणाउं१२ / किरियाविसालपुव्वं 13 चोद्दसमं बिंदुसारं तु 14 // 2 // उप्पाये पयकोडी 1 अग्गेणीयंमि छन्नउइलक्खा 2 / विरियम्मि सयरिलक्खा 3 सट्ठिलक्खा उ अत्थिणत्थिम्मि 4 // 3 // एगा पउणा कोडी णाणपवायंमि होइ पुवंमि 5 / एगा,पयाण कोडी छच्च पया सच्चवायमि 6 // 4 // छव्वीस Gउत्पादमग्रायणीयं वीर्यमस्तिनास्तिप्रवादम्। ज्ञानप्रवादं सत्यप्रवादमात्मप्रवादं च कर्मप्रवादं च // 1 // प्रत्याख्यानं पूर्व विद्यानुवादमवन्ध्यं प्राणायुः। क्रियाविशालं पूर्वं चतुर्दशं बिन्दुसारं तु ।।२।।उत्पादे पदकोटी अग्रायणीये षण्णवतिलक्षा वीर्ये सप्ततिलक्षा अस्तिनास्तिपूर्वे षष्टिलक्षाः।।३।।पादोनैका कोटी ज्ञानप्रवादे भवति पूर्वे। चतुर्थमध्ययनं चतु:स्थानम्, प्रथमोद्देशक: सूत्रम् 262-263 दृष्टिवादे परिकर्मादिभेदाः (पूर्वपदमानम्), प्रायश्चित्तप्रकाराः, (प्रतिसेवासंयोजनाऽऽरोपणापरिकुंचना:) // 354 //