________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ चतुर्थमध्ययनं चतुःस्थानम्, प्रथमोद्देशकः सूत्रम् // 344 // बहुसईयं कम्मक्खेतं कसंति ते जम्हा। कलुसंति जंच जीवं तेण कसायत्ति वुच्चंति॥१॥ अथवा कषति-हिनस्ति देहिन इति कषं-कर्म भवो वा तस्याया लाभहेतुत्वात् कषं वा आययन्ति- गमयन्ति देहिन इति कषायाः, उक्तं च-कम्मं कसं भवो वा कसमाओ सिंजओ कसायातो। कसमाययंति व जओ गमयंति कसं कसायत्ति ॥१॥(विशेषाव० 1228,2978) इति, तत्र क्रोधन क्रुध्यति वा येन स क्रोधः- क्रोधमोहनीयोदयसम्पाद्यो जीवस्य परिणतिविशेषः क्रोधमोहनीयकर्मैव वेति, एवमन्यत्रापि, नवरंजात्यादिगुणवानहमेवेत्येवं मननं- अवगमनं मन्यते वाऽनेनेति मानः, तथा मानं हिंसनं वञ्चनमित्यर्थो मीयते वाऽनयेति माया, तथा लोभनं- अभिकाङ्क्षणं लुभ्यते वाऽनेनेति लोभः / एव मिति यथा सामान्यतश्चत्वारः कषायास्तथा विशेषतो नारकाणामसुराणां यावच्चतुर्विंशतितमे पदे वैमानिकानामिति / चउप्पइट्ठिए त्ति चतुर्यु- आत्मपरोभयतदभावेषु प्रतिष्ठितः चतुःप्रतिष्ठितः, तत्र आयपइट्ठिए त्ति आत्मापराधेनैहिकामुष्मिकापायदर्शनादात्मविषय आत्मप्रतिष्ठितः, परेणाक्रोशादिनोदीरितः परविषयो वा परप्रतिष्ठित, आत्मपरविषय उभयप्रतिष्ठितः, आक्रोशादिकारणनिरपेक्षः केवलं क्रोधवेदनीयोदयाद यो भवति सोऽप्रतिष्ठितः, उक्तं च- सापेक्षाणि च निरपेक्षाणि च कर्माणि फलविपाकेषु / सोपक्रमञ्च निरुपक्रमं च दृष्टं यथाऽऽयुष्कम्॥ १॥इति, अयं च चतुर्थभेदो जीवप्रतिष्ठितोऽपि आत्मादिविषयेऽनुत्पन्नत्वादप्रतिष्ठित उक्तो, नतु सर्वथा अप्रतिष्ठितश्चतुःप्रतिष्ठितत्वस्याभावप्रसङ्गादिति / एकेन्द्रियविकलेन्द्रियाणां कोपस्यात्मादिप्रतिष्ठितत्वंपूर्वभवे तत्परिणामपरिणतमरणेनोत्पन्नानामिति, एवं मानमायालोभैर्दण्डकत्रयमपरमध्येतव्यमिति, क्षेत्रं नारकादीनां 4 स्वं स्वमुत्पत्तिस्थानं प्रतीत्य- आश्रित्य एवं ®सुखदुःखबहुशस्यं कर्मक्षेत्रं कर्षन्ति ते यस्मात् / यच्च जीवं कलुषयन्ति तेन कषाया इति उच्यन्ते॥१॥0 कषः कर्म भवो वा कषोऽनयोरायो यतः कषायात्। कषमाययन्ति वा यतो गमयन्ति वा कषं कषाया इति // 1 // 248-249 देवानां स्थितिसंवासाः, कषायभेदाः, क्रोधादीनां प्रतिष्ठानमुत्पतिहेत्वनन्तानुबन्ध्याचा भोगनिर्वतितादिभेदाश्च बन्धिनः प्रतिबन्धकत्वमेव) // 344 //