________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 338 // सूत्रम् 247 भेदलक्षणभावना55 मरणान्त आमरणान्तादामरणान्तमसञ्जातानुतापस्य कालसौकरिकादेरिव या हिंसादिषु प्रवृत्तिः सैव दोष आमरणान्तदोषः। चतुर्थमध्ययनं अथ धयं चतुर्विधमिति स्वरूपेण चतुषुपदेषु-स्वरूपलक्षणालम्बनानुप्रेक्षालक्षणेष्ववतारो विचारणीयत्वेन यस्य तच्चतुष्पदा प्रथमोद्देशकः वतारं चतुर्विधस्यैव पर्यायो वाऽयमिति, क्वचित् चउप्पडोयार मिति पाठस्तत्र चतुषु पदेषु प्रत्यवतारो यस्येति विग्रह इति, आणाविजएत्ति आ-अभिविधिना ज्ञायन्तेऽर्था यया साऽऽज्ञा-प्रवचनंसा विचीयते-निर्णीयते पर्यालोच्यते वा यस्मिंस्तदाज्ञा-8 ध्यानस्य विचयं धर्मध्यानमिति, प्राकृतत्वेन विजयमिति, आज्ञा वा विजीयते अधिगमद्वारेण परिचिता क्रियते यस्मिन्नित्याज्ञा-2 विजयम्, एवं शेषाण्यपि, नवरं अपाया रागादिजनिताः प्राणिनामैहिकामुष्मिका अनर्था, विपाकः- फलं कर्मणां ज्ञानाद्या- लम्बनानि वारकत्वादि संस्थानानि लोकद्वीपसमुद्रजीवादीनामिति, आह च-आप्तवचनं प्रवचनमाज्ञा विचयस्तदर्थनिर्णयनम्। आश्रवविकथागौरवपरीषहाद्यैरपायस्तु॥ 1 // अशुभशुभकर्मपाकानुचिन्तनार्थो विपाकविचयः स्यात् / द्रव्यक्षेत्राकृत्यनुगमनं संस्थानविचयस्त्वि॥२॥ (प्रशम० २४८-४९)ति, एतल्लक्षणान्याह- आणारुइ त्ति आज्ञा- सूत्रव्याख्यानं नियुक्त्यादि तत्र तया वा रुचिः- श्रद्धानम् आज्ञारुचिः, एवमन्यत्रापि, नवरं निसर्गः- स्वभावोऽनुपदेशस्तेन, तथा सूत्रं- आगमस्तत्र तस्माद्वा, तथा अवगाहनमवगाढं- द्वादशाङ्गावगाहो विस्तराधिगम इति सम्भाव्यते तेन रुचिरथवा ओगाढत्ति साधुप्रत्यासन्नीभूतस्तस्य साधूपदेशाद्रुचिः, उक्त चं- आगमउवएसेणं निसग्गओ जंजिणप्पणीयाणं / भावाणं सद्दहणं धम्मज्झाणस्सतं लिंगं॥१॥(ध्यानशतक 67) इति, तत्त्वार्थश्रद्धानरूपं सम्यक्त्वं धर्मस्य लिङ्गमिति हृदयम्, धर्मस्यालम्बनान्युच्यन्ते-धर्मध्यानसौधारोहणार्थमालम्ब्यन्त इत्यालम्बनानि वाचनं वाचना-विनेयाय निर्जरायै सूत्रदानादि, तथा शङ्किते सूत्रादौ शङ्कापनोदाय गुरोः प्रच्छन (r) आगमोपदेशेन निसर्गतो यज्जिनप्रणीतानाम् / भावानां श्रद्धानं तद्धर्मध्यानिनो लिङ्गम् // 1 // // 338 //