SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 335 // चतुर्थमध्ययन चतुःस्थानम्, प्रथमोद्देशकः सूत्रम् 247 ध्यानस्य भेदलक्षणभावनाऽऽलम्बनानि मेगवत्थुम्मि। छउमत्थाणं झाणं जोगनिरोहो जिणाणं तु॥१॥ (ध्यानशतक 3) इति, तत्र ऋतं- दुःखं तस्य निमित्तं तत्र वा भवमृते वा-पीडिते भवमार्तं ध्यानं- दृढोऽध्यवसायो हिंसाद्यतिक्रौर्यानुगतं रौद्रं श्रुतचरणधर्मादनपेतं धन॑ शोधयत्यष्टप्रकारं कर्ममलं शुचं वा क्लमयतीति शुक्लम्, चउब्विहे त्ति चतम्रो विधा- भेदा यस्य तत्तथा, अमनोज्ञस्य- अनिष्टस्य, असमणुन्नस्सत्ति पाठान्तरे अस्वमनोज्ञस्य- अनात्मप्रियस्य शब्दादिविषयस्य तत्साधनवस्तुनो वा सम्प्रयोगः- सम्बन्धस्तेन सम्प्रयुक्तःसम्बद्धोऽमनोज्ञसम्प्रयोगसम्प्रयुक्तोऽस्वमनोज्ञसम्प्रयोगसम्प्रयुक्तो वा य इति गम्यते तस्ये ति अमनोज्ञशब्दादेर्विप्रयोगायविप्रयोगार्थ स्मृति:-चिन्ता तांसमन्वागत:- समनुप्राप्तो भवति यः प्राणी सोऽभेदोपचारादातमिति, चापीतिशब्द उत्तरविकल्पापेक्षया समुच्चयार्थः, अथवा अमनोज्ञसम्प्रयोगसम्प्रयुक्तो यःप्राणी तस्य प्राणिनो विप्रयोगे-प्रक्रमादमनोज्ञशब्दादिवस्तूनां वियोजने स्मृति:- चिन्तनं तस्याः समन्वागतं- समागमनं समन्वाहारो विप्रयोगस्मृतिसमन्वागतम्, चापीति तथैव, भवति आर्त्तध्यानमिति प्रक्रमः, अथवा अमनोज्ञसम्प्रयोगसम्प्रयुक्ते प्राणिनि तस्ये ति अमनोज्ञशब्दादेर्विप्रयोगस्मृतिसमन्वागतमार्तध्यानमिति, उक्तं च-आर्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः (तत्त्वार्थ० अ० 9 सू० 31) इति प्रथममेवमुत्तरत्रापि, नवरं मनोज्ञं-वल्लभं धनधान्यादि अविप्रयोगोऽवियोग इति द्वितीयमार्त्तमिति, तथा आतङ्को-रोग इति तृतीयम्, तथा परिजुसिय त्ति निषेविता ये कामाः- कमनीया भोगाः- शब्दादयोऽथवा कामौ- शब्दरूपे भोगा- गन्धरसस्पर्शाः कामभोगाः कामानां वा-शब्दादीनां यो भोगस्तैस्तेन वा सम्प्रयुक्तः, पाठान्तरे तु तेषां तस्य वा सम्प्रयोगस्तेन सम्प्रयुक्तो यः स तथा, अथवा परिझुसिय त्ति परिक्षीणोजरादिनासचासौ कामभोगसम्प्रयुक्तश्च यस्तस्य तेषामेवाविप्रयोगस्मृतेः समन्वागतं+ ध्यानं छद्मस्थानां जिनानां तु योगनिरोधः // 1 // // 335 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy